Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
सावरिके प्रमाणनयतत्वालोकालङ्कारे चतुर्थः परिच्छेदः। २७ अप्राधान्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् ॥ २४ ॥ तमिति निषेधम् ॥ २४ ॥ कचित्कदाचित्कथंचित्प्राधान्येनाप्रतिपन्नस्याप्राधान्यानुपपत्तेः३ ॥२५॥
न खलु मुख्यतः स्वरूपेण प्रतिपनं वस्तु कचिदप्रधानभावमनुभवतीति । इस्थमाद्यमकान्तं निरस्य द्वितीयभङ्गैकान्तनिरासमतिदिशन्ति । ६ निषेधप्रधान एव शब्द इत्यपि प्रागुक्तन्यायादपास्तम् ॥ २६॥ क्रमादुभयप्रधान एवायमित्यपि न साधीयः ॥ २७ ॥
अस्य विधिनिषेधान्यतरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् ॥२८॥
आयद्वितीयभङ्गगतैकैकप्रधाना प्रतीतेरप्यबाधितत्वान्न तृतीयभङ्गैकान्तः श्रेयान् ॥ २८॥
युगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासौ इतिवचो न चतुरस्रम् ॥ २९॥
तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसंगात् ॥ ३०॥ विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एव स इत्येकान्तोऽपि नैकान्तः ॥ ३१॥
निषेधात्मनोऽर्थस्य वाचकत्वेन सह विधिनिषेधात्मनोऽर्थस्यावाचकत्वेन १४ शब्दः षष्ठभने प्रतीयते । अतः पञ्चमभङ्गैकान्तोऽपि न श्रेयान् ॥ ३१ ॥
निषेधात्मनः सह द्वयात्मनश्वार्थस्य वाचकत्वावाचकत्वाभ्यामपि शब्दस्य प्रतीयमानत्वात् ॥ ३२॥
निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एवायमित्यप्यवधारणं न रमणीयम् ॥ ३३॥ इतरथापि संवेदनात् ॥ ३४॥ क्रमाक्रमाभ्यामुभयखभावस्य भावस्य वाचकश्चावाचकश्च । ध्वनि न्यथा इत्यपि मिथ्या ॥ ३५ ॥
१६

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70