Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 31
________________ २६ सावचूरिके प्रमाणनयतत्वालोकालङ्कारे चतुर्थः परिच्छेदः । तद्यथेति । स्यात्कथंचित्स्वद्रव्यक्षेत्रकालभावस्वरूपेणास्त्येव सर्व कुम्भादि । न पुनः परद्रव्यादिरूपेण । तथाहि कुम्भो द्रव्यतः पार्थिवत्वेनास्ति न ३ जलादिरूपत्वेन, क्षेत्रतः पाटलिपुत्रकत्वेन न कान्यकुब्जादित्वेन, कालतः शैशिरवेन न वासन्तिकादित्वेन, भावतः श्यामरवेन न रकत्वादिना, अवधारणं चात्रानभिमतार्थव्यावृत्यर्थम् ॥ १५॥ ६ द्वितीयमाहुः स्यानास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः ॥ १६ ॥ स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वानिष्टौ हि प्रतिनियत९ स्वरूपाभावाद्वस्तुप्रति नियमविरोधः ॥ १६ ॥ स्थादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः॥१७॥ १२ क्रमाप्तिाभ्यां अस्तित्वनास्तित्वाभ्यां विशेषितं सर्व कुंभादि वस्तु स्वादस्त्येव स्थानास्त्येवेत्युल्लेखेन वक्तव्यम् ॥ १७ ॥ स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः॥ १८ ॥ १५ द्वाभ्यामस्तित्वनास्तित्वाख्यधर्माभ्यां युगपत्प्रधानवयाऽर्पिताभ्यामेकस्य वस्तुनो विधिरसायां तादृशस्य शब्दस्यासंभवादवक्तव्यं जीवादिवस्स्विति ॥१८॥ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधि१८ निषेधकल्पनया पंचमः॥१९॥ स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः ॥ २०॥ २१ स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधि. निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः ॥ २१॥ स्वपरद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वनास्तिस्वयोः सतोरस्तित्वनास्तित्वाभ्यां २४ समसमयमभिधातुमशक्यं सर्व वस्तु तत एवमनेन भङ्गेनोपदिश्यते॥२१॥ अस्यामेव सप्तभङ्गयामेकान्तविकल्पानिराकुर्वन्ति विधिप्रधान एव ध्वनिरिति न साधुः ॥ २२ ॥ २७ निषेधस्यापि तस्मादप्रतिपत्तिप्रसक्तेः॥ २३॥

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70