Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
२४ सावचूरिके प्रमाणनयतत्त्वालोकालकारे चतुर्थः परिच्छेदः ।
अकारादिः पौगलिको वर्णः॥९॥
पुद्गलैर्भाषावर्गणापरमाणुभिरारब्धः पौद्गलिकः ॥९॥ ३ वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदम्, पदानां तु वाक्यम् ॥१०॥
वर्णौ च वर्णाश्चेत्येकशेषाद्वर्णा ब्रह्मसंबोधने क इत्यादौ द्वयोः गौरित्यादौ ६ बहूनां च वर्णानामन्योन्यापेक्षाणां पदार्थप्रतिपत्तौ कर्तव्यायां परस्परं सहकारितायां स्थितानां 'निरपेक्षा' पदान्तरवर्णकृतोपकारपराङ्मुखी, संहतिमलकः । 'पदं' पद्यते गम्यते स्वयोग्योऽर्थोऽनेनेति व्युत्पत्तेः, प्रायिकत्वाच ९ वर्णद्वयादेरेव पदत्वं लक्षितं यावता विष्णुवाचकैकाक्षराकारादिकमपि पदत्वेन लक्षितं द्रष्टव्यम् । पदानां तु स्वोचितवाक्यार्थप्रत्यायने विधेयेs. न्योन्यनिर्मितोपकारमनुसरतां वाक्यान्तरस्थपदापेक्षारहिता संहतिर्वाक्यम१२ भिधीयते ॥ १०॥
संकेतमात्रेणैव शब्दोऽथ प्रतिपादयति नतु स्वाभाविकसंबन्धवशादिति गदतो नैयायिकान्समयादपि नायं वस्तु वदति इति वदतः सौगतान्परा१५ कुर्वन्ति
खाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः॥ ११॥
स्वाभाविकं सहजम्, 'सामर्थ्य' च शब्दस्यार्थप्रतिपादनशक्तियोग्यता १८ नानी, समयश्च संकेतस्ताभ्यामर्थप्रतिपत्तिकारणं शब्दः । ननु शब्दार्थयोर्यदि
वास्तवः संबन्धः तर्हि संकेतो वृथा । स खलु संबन्धो यतोऽर्थप्रतीतिः। स
चेद्वास्तवस्तर्हि निरर्थकः संकेतः तत एवार्थप्रतीतिसिद्धेः । तदयुक्तम् । यतो न २१ विद्यमान इत्येव संबन्धोऽर्थप्रतीतिनिबन्धनम् । किन्तु स्वात्मज्ञानसहकारी यथा प्रदीपस्तथाहि प्रदीपो रूपप्रकाशनस्वभावोऽपि यदि स्वात्मज्ञानदर्शनसह
कारिकृतसाहायकस्ततो रूपं प्रकाशयति । नान्यथा-(असति चक्षुषि न प्रका. २४ शयति(?))-ज्ञापकत्वात् । न खलु धूमादिकमपि लिङ्गं वस्तुवृत्त्या वयादिप्रतिबद्धमपि सत्तामात्रेण वह्नयादेर्गमकम् । तदुक्तमन्यैरपि-"ज्ञापकत्वादिसंबन्धः स्यात्मज्ञानमपेक्षते। तेनासौ विद्यमानोऽपि नागृहीतप्रकाशक:" ॥१॥
संबन्धस्य च परिज्ञानं तदावरणकक्षयोपशमाभ्याम् , तौ च संकेततपश्चरण. २८ भावनायनेकसाधनसाध्यौ । ततश्च संकेतादिभ्यः समुत्पमतदावरणक्षयोप

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70