Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 28
________________ सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयचतुयौँ परिच्छेदो। २३ विधेयया छायया विरुद्धस्तापः तव्यापकमौष्ण्यं तस्यानुपलब्धिरिति॥१०॥ विरुद्धसहचरोपलब्धिर्यथा अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलम्भात् ॥ १०९॥ इति स्मरणप्रत्यभिज्ञानतर्वानुमानखरूपनिर्णयो नाम तृतीयः परिच्छेदः ॥३॥ इति तृतीयः परिच्छेदः। आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥१॥ आक्षेति । आगम्यन्ते मर्यादयाऽवबुध्यन्ते अर्था अनेनेत्यागमः ॥ १॥ ९ उपचारादाप्तवचनं च ॥२॥ प्रतिपाद्यज्ञानस्य ह्यागमवचनं कारणमिति कारणे कार्योपचारात्तदप्यागमः ॥२॥ यथा समस्त्यत्र प्रदेशे रत्ननिधानम्, सन्ति रत्नसानुप्रभृ. तयः॥३॥ अस्त्यत्र प्रदेशे रवनिधानं सन्ति रखसानुप्रभृतयः इति वक्ष्यमाणलौकिक-१५ जनकादिलोकोत्तरतीर्थकराधपेक्षया क्रमेणोदाहरणोभयी ॥३॥ अभिधेयं वस्तु यथावस्थितं यो जानीते यथाशातं चाभिधत्ते स आप्तः ॥४॥ आप्यते प्रोक्तोऽर्थोऽसादित्याप्तः । यद्वा आप्तिः रागादिदोषक्षयः, सा विद्यते यस्येति आप्तः । जाननपि रागादिमानन्यथापि कथयेत्तद्विच्छित्तये यथाज्ञातमित्युक्तम् ॥४॥ तस्य हि वचनमविसंवादि भवति ॥५॥ स च द्वेधा लौकिको लोकोत्तरश्च ॥६॥ लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः ॥७॥ वर्णपदवाक्यात्मकं वचनम् ॥ ८॥ - उपलक्षणं चैतत्प्रकरणपरिच्छेदादीनामपि ॥८॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70