Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 27
________________ २२ सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः । पूर्वचरानुपलब्धिर्यथा नोद्गमिष्यति मुहूर्तान्ते स्वातिनक्षत्रं चित्रोदयादर्शनात् ॥ १००॥ ३ उत्तरचरानुपलब्धिर्यथा नोदगमत्पूर्वभद्रपदा मुहूर्तात्पूर्वमुत्तरभद्रपदोद्गमानवगमात् ॥ १०१॥ सहचरानुपलब्धिर्यथा नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानु. ६ पलब्धेः ॥ १०२॥ इयं सप्तधाप्यनुपलब्धिः साक्षादनुपलम्भद्वारेण । परंपरया पुनरेषा संभवन्यत्रैवान्तर्भाव्या । तथाहि-नास्त्येकान्तनिरन्वयं तत्वम् तत्र क्रमाक्रमा९ नुपलब्धेरिति या कार्यव्यापकानुपलब्धिः निरन्वयतत्वकार्यस्यार्थक्रियारूपस्य यव्यापकं क्रमाक्रमरूपं तस्यानुपलम्भसद्भावारसा व्यापकानुपलब्धावेव क्षेप्या। एवमन्या अपि यथासंभवमास्वेव विशन्ति ॥ १०२॥ १२ विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पंचधा ॥ १०३ ॥ विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भमेदात्॥१०४॥ विरुद्धकार्यानुपलब्धिर्यथा अत्र शरीरिणि रोगातिशयः समस्ति ३५ नीरोगव्यापारानुपलब्धेः ॥ १०५॥ विरुद्धेति । विधेयस्य रोगातिशयस्य विरुद्धमारोग्यं तस्य कार्य विशिष्टव्यापारस्तस्यानुपलब्धिः ॥ १०५ ॥ १८ विरुद्धकारणानुपलब्धिर्यथा विद्यतेऽत्र प्राणिनि कष्टमिष्टसंयोगाभावात् ॥ १०६॥ विधेयं कष्टं तद्विरुद्धं सुखं तस्य कारणमिष्टसंयोगस्तस्यानुपलब्धिः ॥२०६॥ २१ विरुद्धस्वभावानुपलब्धिर्यथा वस्तुजातमनेकान्तात्मकमेकान्तखभावानुपलम्भात् ॥ १०७॥ वस्तुजातमन्तरङ्गो बहिरङ्गश्च पदार्थसार्थः । अत्यते गम्यते निश्चीयते २४ इत्यन्तो धर्मः । अनेकश्चासावन्तश्चानेकान्तः । स आत्मा यस्य तदनेकान्तात्मकम् ॥ १०७ ॥ विरुद्धव्यापकानुपलब्धिर्यथा अस्त्यत्र छाया औष्ण्यानुप२.लब्धेः ॥१०८॥

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70