Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 26
________________ सावचूरिके प्रमाणनयतत्त्वालोकालकारे तृतीयः परिच्छेदः। ॥ मस्ति सुखोपलम्भात् । साक्षादन सुखदुःखयोर्विरोधः, प्रतिषेध्यस्वभावेन तु सुखदुःखकारणेन परम्परया । व्यापकवि०-न संनिकर्षादिःप्रमाणमज्ञानत्वात् । साक्षादत्र ज्ञानत्वाज्ञानत्वयोर्विरोधः, प्रतिषेध्यस्वभावेन तु ज्ञानत्वव्याप्येन प्रामाण्येन व्यवहितः । कारणवि०-नासौ रोमहर्षादिविशेषवान् समीपवर्तिपावकविशेषात् । अत्र पावकः साक्षाद्विरुवः शीतेन, प्रतिषेध्यसमावेन तु रोमहर्षादिना शीतकार्येण पारम्पर्येण । ये तु नास्त्यस्य हिमजनितरोमहर्षादि-६ विशेषो धूमात् । प्रतिषेध्यस्य हि रोमहर्षादिविशेषस्य कारणं हिमं तद्विरुद्धोऽग्निस्तस्कार्य धूम इत्यादयः कारणविरुद्धकार्योंपलब्ध्यादयो विरुद्धोपलब्धिभेदास्ते यथासम्भवं विरुद्धकार्योंपलब्ध्यादिष्वन्तर्भाव्याः ॥ १२ ॥ अनुपलब्धेरपि द्वैरूप्यमविरुद्धानुपलब्धिर्विरुद्धानुपलब्धिश्च ॥९३॥ तत्राविरुद्धानुपलब्धिः प्रतिषेध्यावबोधे सप्तप्रकारा॥९४ ॥ १२ प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचराणामनुपलब्धिरिति ॥९५॥ खभावानुपलब्धिर्यथा नास्त्यत्र भूतले कुम्भ उपलब्धिलक्षण-१५ प्राप्तस्य तत्वभावस्यानुपलम्भात् ॥ ९६॥ उपलब्धिलक्षणप्राप्तस्येति । उपलब्धिर्ज्ञानं तस्य लक्षणानि कारणानि चक्षुरादीनि तानि प्राप्तः, जनकत्वेनोपलब्धिकारणान्तर्भावात्स तथा दृश्य १८ इत्यर्थस्तस्यानुपलम्भात् ॥ ९६ ॥ व्यापकानुपलब्धिर्यथा नास्त्यत्र प्रदेशे पनसः पादपानुपलब्धेः॥ ९७॥ कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीजं अपरानवलोकनात् ॥ ९८॥ कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयो भावास्त-२४ त्त्वार्थश्रद्धानाभावात् ॥ ९९॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तस्याभावः कुतोऽपि देवष्यभक्षणादेः सकाशासिध्यंस्तत्त्वार्थश्रद्धानकार्यभूतानां प्रशमादीनामभावं गमयति ॥.९९ ॥२७

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70