Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः ।
वाचकः । सोपि तथाभूतस्तथाभूतस्य वाच्य इत्याकारं वाच्यवाचकभावालम्बनं च संवेदनमिहोपादीयते इति स्वरूपोक्तिः ॥ ७ ॥
१०
३ यथा यावान् कश्चित् धूमः स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसत्यसौ न भवत्येवेति ॥ ८ ॥
अनुमानं द्विप्रकारे स्वार्थे परार्थ च ॥ ९ ॥
६
अनुमानेति । नन्वनुमानस्याध्यक्षस्येव सामान्यलक्षणमनाख्यायैव कथमादित एव प्रकारकीर्तनम् उच्यते - परमार्थतः स्वार्थस्यैवानुमानस्य भावात् । स्वार्थमेव ह्यनुमानं कारणे कार्योपचारात् परार्थं कथ्यते । यत्पुनः स्वार्थेन ९ तुल्यकक्षतया अस्योपादानं तद्वादे शास्त्रे चानेनैव व्यवहाराल्लोकेऽपि च प्रायेणास्योपयोगात् । तत्रानु हेतुग्रहणसम्बन्धस्मरणयोः पश्चान्मीयते अर्थोऽनेनेत्यनुमानम् । स्वस्मै प्रमातुरिदं स्वार्थ स्वावबोध निबन्धनमित्यर्थः ॥ ९ ॥ १२ तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् १०
१८
तन्त्रेति । हेतोर्ग्रहणं च प्रमाणेन निर्णयः । सम्बन्धस्मरणं च यथैव सम्बन्धो व्याप्तिनामा प्राक्तर्केणातर्कि तथैव परामर्शस्ते कारणं यस्य तत्तथा ॥ १० ॥ १५ निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ॥ ११ ॥
निश्चितेति । अन्यथा साध्यं विनाऽनुपपत्तिरेव न मनागप्युपपत्तिस्ततो निश्चितान्यथानुपपत्तिरेवैका लक्षणं यस्य स तथा ॥ ११ ॥
नतु त्रिलक्षणकादिः ॥ १२ ॥
२१
नत्विति । त्रीणि पक्षधर्मत्व - सपक्षसव - विपक्षासत्त्वानि लक्षणानि यस्य सौगतसंमतस्य हेतोरादिशब्दाद्यो गसङ्गीतपञ्चलक्षणक हेत्ववरोधस्ते नाबाधितविषयत्वासत्प्रतिपक्षत्वयोरपि तल्लक्षणत्वेन कथनात् । तथाहि वह्निमत्ये साध्ये धूमवत्त्वं पक्षस्य पर्वतस्य धर्मो न तु शब्दे चाक्षुषत्ववदतद्धर्मः, सपक्षे पाकस्थाने सनतु प्राभाकरेण शब्दनित्यत्वे साध्ये श्रावणत्ववत्ततो व्यावृत्तम् २४ विपक्षे पयस्वति प्रदेशे असनतु तत्रैव साध्ये प्रमेयत्ववत् । तत्र वर्तमानम् अबाधितविषयं प्रत्यक्षागमाभ्यामबाध्यमानसाध्यत्वात् । नत्वनुष्णस्तेजोवयवीद्रव्यत्वाज्जलवत् । विप्रेण सुरा पेया द्रव्यत्वात्तद्वदेवेतिवत्, ताभ्यां बाधि२७ तविषयम्, असत्प्रतिपक्षं साध्यविपरीतार्थोपस्थापकानुमानरहितं न पुनर्नित्यः

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70