Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 16
________________ सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः। ११ शब्दोऽनित्यधर्मानुपलब्धेरित्यनुमानसमन्वितमनित्यः शब्दो नित्यधर्मानुपलब्धेरित्यनुमानमिव सत्प्रतिपक्षमिति लक्षणत्रयपञ्चकसद्भावाद्गमकम् । इति सौगतयोगाभिप्रायः ॥ १२ ॥ न चायं निरपाय इत्याहतस्य हेत्वाभासस्यापि संभवात् ॥ १३ ॥ तस्येति । स श्यामस्तत्पुत्रत्वात् । प्रेक्ष्यमाणेतरतत्पुत्रवत् । अत्र समग्र-६ तल्लक्षणवीक्षणेऽपि हेतुत्वाभावात् । अत्र विपक्षेऽसत्त्वं निश्चितं नास्ति । नहि श्यामत्वासत्त्वे तत्पुत्रत्वेनावश्यं निवर्तनीयमित्यत्र प्रमाणमस्तीति सौगतः। स एवं निश्चितान्यथानुपपत्तिमेव शब्दान्तरेण शरणीकरोतीति सैवास्तु ॥ १३ ॥९ साध्यविज्ञानमित्युक्तमिति साध्यमाहुःअप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥ १४॥ साधयितुमनिष्टस्यासाध्यत्वं विषयविभागेनाहुः २ शङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतवचनम् ॥ १५॥ प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनिराकृतग्र-१५ हणम् ॥ १६॥ . अनभिमतस्यासाध्यत्वप्रतिपत्तयेऽभीप्सितपदोपादानम् ॥१७॥ अनभिमतस्य साधयितुमनिष्टस्य ॥ १७ ॥ साध्यत्वं विषयविभागेनाहुःव्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एवान्यथातदनुपपत्तेः॥१८ व्याप्तीति । धर्मो वह्निमवादिः । तस्य व्याप्तेरनुपपत्तेः ॥ १०॥ २१ नहि यत्र यत्र धूमस्तत्र तत्र चित्रभानोरिव धरित्रीधरस्याप्यनुवृत्तिरस्ति ॥ १९॥ आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी ॥ २०॥ २५

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70