Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 17
________________ १२ सावचूरिके प्रमाणनयतत्वालोकालङ्कारे तृतीयः परिच्छेदः । आनुमानिकेति । आनुमानिकी प्रतिपत्तिरनुमानोद्भवा प्रमितिः तद्विशिष्टो व्याप्तिकालापेक्षया साध्यत्वेनाभिमतेन धर्मेण विशिष्टः ॥ २० ॥ ३ प्रसिद्धो धर्मीत्युक्तम् । यतोऽस्य प्रसिद्धिस्तदाहु: 1 धर्मिणः प्रसिद्धिः क्वचिद्विकल्पतः कुत्रचित्प्रमाणतः कापि विकल्पप्रमाणाभ्याम् ॥ २१ ॥ ६ यथा समस्ति समस्तवस्तुवेदी, क्षितिधरकंधरेयं धूमध्वजवती, ध्वनिः परिणतिमानिति ॥ २२ ॥ आद्ये उदाहरणे धर्मिणो विकल्पेन सिद्धिर्नहि हेतुप्रयोगात्पूर्वं विकल्पं ९ विहाय विश्वविरकुतोऽपि प्रासिध्यत । द्वितीये प्रमाणेन प्रत्यक्षादिना क्षितिधरकन्धरायास्तदानीं संवेदनात् । तृतीये तुभाभ्याम् नहि श्रूयमाणादन्येषां देशकालस्वभावव्यवहितध्वनीनां ग्राहकं किञ्चित्तदानीं प्रमाणमस्तीति १२ विकल्पादेव तेषां सिद्धिः ॥ २२ ॥ पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥ २३ ॥ पक्षेति । पक्ष हेतुवचनात्मकत्वं च परार्थानुमानस्य व्युत्पन्नमतिप्रतिपाद्या१५ पेक्षयाऽत्रोक्तम् । अतिव्युत्पन्नापेक्षया तु धूमोऽत्र दृश्यते इत्यादिहेतुवचनमात्रास्मकमपि तत् स्यात् मंदमत्यपेक्षया तु दृष्टान्तादिवचनात्मकमपि तत्स्यात् । पक्ष हेतुवचनस्य च जडरूपतया मुख्यतः प्रामाण्यायोगे सत्युपचारादित्युक्तम् १८ कारणे कार्योपचारादित्यर्थः । प्रतिपाद्यगतं हि यज्ज्ञानम्, तस्य कारणं पक्षादिवचनम्, कार्ये कारणोपचाराद्वा, प्रतिपादकगतं यत्स्वार्थानुमानं तस्य कार्य पक्षादि तद्वचनमिति ॥ २३ ॥ व्याप्तिपुरःसरं पक्षधर्मतोपसंहारं तत्पूर्विकां वा व्याप्तिम् आचक्षाणान् भिक्षून् पक्षप्रयोगमंगी कारयितुमाहुः साध्यस्य प्रतिनियतधर्मिसम्बन्धिताप्रसिद्धये हेतोरुपसंहार२४ वचनवत्पक्षप्रयोगोऽप्यवश्यमाश्रयितव्यः ॥ २४ ॥ साध्येति । यथा यत्र धूमस्तत्र धूमध्वज इति हेतोः सामान्येनाधारप्रतिपत्तावपि पर्वतादिविशिष्टधर्मिधर्मताधिगतये धूमश्चात्रेत्येवंरूपमुपसंहारवचनमाश्रीयते सौगतैस्तथा साध्यधर्मस्य नियतधर्मिधर्मता सिद्धये पक्षप्रयोगोऽप्या२८ श्रयितव्यः ॥ २४ ॥ २१ --

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70