Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
१३
सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः ।
त्रिविधं साधनमभिधायैव तत्समर्थनं विधानः कः खलु न पक्षप्रयोगमंगीकुरुते ॥ २५ ॥
त्रिविधेति । त्रिविधं कार्यस्वभावानुपलंभभेदात् । तस्य साधनस्य समर्थन- ३ मसिद्धतादिव्युदासेन स्वसाध्यसाधनसामर्थ्योपदेशनम् । ततः पक्षप्रयोगमनङ्गीकुर्वता तत्समर्थनरूपं हेतुमनभिधायैव तत्समर्थनं विधेयम् । ननु यदि हेतुर्नोच्यते तत्कुत्र समर्थनम् ? तर्हि पक्षो यदि नोच्यते तस्कुत्र ६ समर्थनम् ॥ २५ ॥
प्रत्यक्षस्यापि पारार्थ्यमाहुः -
प्रत्यक्षपरिच्छिन्नार्थाभिधायि वचनं परार्थ प्रत्यक्षं परप्रत्यक्ष- ९ हेतुत्वात् ॥ २६ ॥
प्रत्यक्षेति । यथाऽनुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनुमानमुच्यते, तथा प्रत्यक्षप्रतीतोऽपि तथैव परार्थ प्रत्यक्षमि- १२ त्युच्यताम् ॥ २६ ॥
यथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डिताभरणभारिणीं जिनपतिप्रतिमामिति ॥ २७ ॥
१५
एवं स्मरणादेरपि यथासंभवं पारार्थ्यं प्रतिपत्तव्यम् ॥ २७ ॥ प्रासङ्गिकमुक्त्वा पक्ष हेतुवचनात्मकं परार्थमनुमानमिति समर्थयन्ति ॥२७॥ पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरङ्गं न दृष्टा- १८ न्तादिवचनम् ॥ २८ ॥
पक्षेति । आदिशब्देनोपनयनिगमनादिग्रहः । एवञ्च यद्व्याभ्युपेतपक्षधर्मतोपसंहाररूपं भाट्टप्राभाकरकापिलैः, पक्ष हेतुदृष्टान्तोपनयनिगमनलक्षणं २१ नैयायिकवैशेषिकाभ्यामनुमानमाम्नायि तदपास्तम् ॥ २८ ॥ हेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः ॥ २९ ॥
सत्येव साध्ये हेतोरुपपत्तिः तथोपपत्तिः असति साध्ये हेतो- २४ रनुपपत्तिरेवान्यथानुपपत्तिः ॥ ३० ॥
यथा कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमवे धूमवत्त्वस्योपपत्तेरऽसत्यनुपपत्तेर्वेति ॥ ३१ ॥
२७

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70