Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
१६ सावचूरिके प्रमाणनयतत्त्वालोकालकारे तृतीयः परिच्छेदः ।
उक्तलक्षणो हेतुर्द्विप्रकारः। उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् ॥ ५४॥ ३ उपलब्धिर्विधिनिषेधयोः सिद्धिनिबन्धनमनुपलब्धिश्च ॥ ५५॥
विधिः सेंदशः॥५६॥
प्रतिषेधोऽसदशः॥ ५७॥ ६ स चतुर्धा प्रागभावः प्रध्वंसाभाव इतरेतराभावोऽत्यन्ताभावश्च ॥ ५८॥
स इति । प्राक्पूर्व वस्तूत्पत्तरभावः। प्रध्वंसश्वासावभावः । इतरेतरस्मिन९ भावः । अत्यन्तं सर्वदाऽभावः । पदार्थव्यवस्थार्थ चावश्यमभावचातुर्विध्यमाश्रयणीयम् । तदुक्तम्- "कार्यद्रव्यमनादि स्यात् प्रागभावस्य निहवे । प्रध्वं.
सस्याप्यभावस्य प्रच्यवेऽनन्ततां व्रजेत् । वस्तु सर्वात्मकं हि स्यादन्यापोह१२ व्यतिक्रमे ॥” इति ॥ ५८ ॥
यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः ॥ ५९॥
यस्य पदार्थस्य निवृत्तावेव न पुनरनिवृत्तावपि, अतिव्याप्तिप्रसक्तः । १५ अन्धकारस्थापि निवृत्तौ क्वचिज्ज्ञानोत्पत्तिदर्शनात् अन्धकारस्यापि ज्ञानप्रागभावत्वप्रसङ्गात् । न चैवमपि रूपज्ञानं तन्निवृत्तावेवोत्पद्यते इति तत्प्रतीतस्य तत्त्वप्रसक्तिरिति वाच्यम् । अतीन्द्रियदर्शिनि नक्तंचरादौ च तद्भावे १८ तद्भावात् । स इति पदार्थः । अस्येति कार्यस्य ।
यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः॥६० यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावः ॥ ६१ ॥
यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम् ॥ ६२॥
खरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः॥ ६३ ॥ २४ यथा स्तंभखभावात्कुम्भखभावव्यावृत्तिः ॥ ६४ ॥
कालत्रयापेक्षिणी हि तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः॥६५ . तादात्म्यपरिणामनिवृत्तिरेकस्वपरिणतिव्यावृत्तिः ॥ ६५ ॥ . २७ यथा चेतनाचेतनयोः ॥६६॥
२१

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70