Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 420
________________ ४०८ श्रीपार्श्वनाथचरिते- श्रीनाभिपार्थिवभुवो मुखमुच्चकार । तस्य ध्रुवं तदियमंसनिवेशकेश___ च्छायाच्छलादपतदङ्ककलङ्कलेखा ॥ ३६५ ॥ अंसस्थली चिकुरकञ्चुकिता युगादि देवस्य विग्रहगृहे विहिताश्रयायाः । क्रीडाकृते मरकतोपलबद्धभूमि शोभां दधाति गुरुसंयमराजलक्ष्म्याः ॥ ३६६ ॥ इत्युदारस्तवं कृत्वा वन्दित्वा च जिनं मुनिः । निविष्टः शुद्धभूभागे वन्दारुजनवेष्टितः ॥ ३६७ ॥ पूजयित्वा नरेन्द्रोऽथ तत्र पुष्पाक्षतैर्जिनम् । फलमक्षतपूजाया मुनि पप्रच्छ सोऽब्रवीत् ॥ ३६८ ।। ध्रुवं रत्नत्रयोपास्तिमनो-वाक्-कायशोधनम् । त्रिशल्योन्मूलने हेतुर्यजन्मत्रयपावनम् ॥ ३६९ ॥ अखण्डस्फुटितैश्चोक्षाऽक्षतैः पुञ्जत्रयं नराः । पुरो जिनस्य कुर्वाणाः प्राप्नुवन्त्यक्षतं सुखम् ॥ ३७० ॥ (युग्मम् ) इत्थं गुरुवचः श्रुत्वाऽक्षतपूजासमुद्यतम् । दृष्टा लोकं शुकी कान्तं निजमेवमवोंचत ॥ ३७१ ॥ अक्षतानां जिनं पुञ्जत्रयेणावामपि प्रिय !। पूजयावोचिरेणैव यथा सिद्धिसुखं भवेत् ॥ ३७२ ।। एवमित्युदिते चञ्चुपुटेनाऽऽदाय तन्दुलान् । जिनस्य पुरतस्ताभ्यां पुञ्जत्रयमरच्यत ॥ ३७३ ॥ अपत्ययुगलं चाभ्यां शिक्षितं यज्जिनेशितुः । मुश्चताग्रेऽक्षतान् सौख्यं येनाऽऽसादयताऽक्षयम् ॥३७४॥ इति प्रतिदिनं कृत्वा जिनस्याऽक्षतपूजनम् । गतान्यायुःक्षये तानि चत्वार्यपि सुरालयम् ॥ ३७५ ॥ १ शरीरगृहे। २ वन्दनशीलाः ।

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500