Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 452
________________ ४४० श्रीपार्श्वनाथचरितेतथाहिश्रीवसन्तपुरेऽभूवन् चत्वारः सार्थवाहजाः। चारुयोग्यो हितज्ञश्च मूढश्चेत्यभिधानतः ॥ ७८५ ॥ अन्योऽन्यसुहृदः सर्वे ते वणिज्यार्थमन्यदा । उल्लङ्घय जलधिं रत्नद्वीपं रत्नाकरं ययुः ॥ ७८६ ॥ तत्र चारुः स्वभावेन कौतुक-व्यसनोज्झितः । लोकस्यावर्जको रत्नपरीक्षाकुशलः स्थिरः ।। ७८७ ॥ वज्रे-न्द्रनील-वैडूर्य-पद्मरागा-ऽञ्जनादिकम् । पञ्चवर्ण महानयं स रत्नौघमुपार्जयत् ।। ७८८ ॥ .: योग्योऽपि कुरुते किश्चिद् वाणिज्यं चारुशिक्षया । . जानीते सोऽपि रत्नानां गुण-दोषविचारणाम् ॥ ७८९ ॥ किन्त्वारामसरःक्रीडाकौतुकी भ्रमते बहु । तथापि मिलितान्यस्य माणिक्यानि कियन्त्यपि ॥७९०॥ शृणोति च वचश्वारोमन्यते च करोत्यपि । वर्ततेऽसौ तथा चारौ यथा तस्य हृदि स्थितः ॥ ७९१ ॥ हितज्ञश्च न जानाति स्वयं रत्नपरीक्षणम् । ततोऽसौ यस्य कस्याऽपि कथितं मन्यतेऽखिलम् ॥७९२॥ शृणोति चारुशिक्षां च तुष्टः किन्त्वस्य नो हृदि । किश्चित् तिष्ठति मुग्धत्वान्नाट्यादौ च बहुभ्रमात् ॥७९३॥ अतः परमुखप्रेक्षी स धूतॆर्विप्रतारितः। काचा-ऽश्मगवलादीनि रत्नभ्रान्त्या समग्रहीत् ॥७९४॥ मूढस्तु न स्वयं वेत्ति न चारुमपि पृच्छति । न शृणोत्युदितं तस्य न चाऽपि बहु मन्यते ॥७९५।। दक्षंमन्यतया मूर्खः शङ्ख-शुक्ति-कपदकान् । केवलं मीलयामास कृत्वा भूरि धनव्ययम् ।। ७९६ ।। कुसङ्गतिपरैधूतैर्वञ्च्यमानः स नित्यशः । अविश्वस्तश्च मित्राणां मोहाद् गमयते दिनान् ॥ ७९७ ॥

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500