Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 482
________________ ४७० श्रीपार्श्वनाथचरितेनद्या वलन्त्यदर्शन तौ सुमूर्ती पुस्तिकाकरौ ॥ ३३१ ॥ साऽतिहृष्टा ततोऽपृच्छद् दत्ताऽऽशीस्तत्पुरः स्थिता । देशान्तरगतस्याऽऽत्मपुत्रस्य कुशलाऽऽगमम् ॥३३२॥ पुत्रस्मृतिभवाद् दुःखादथाऽस्या वाद्धकादपि । कम्पिताङ्गया घटो मूर्ध्नः पतित्वाऽभज्यत क्षितौ ॥३३३॥ तद् दृष्टा सहसा स्थूलमतिरेकस्तयोगी । जानेऽहं घटभङ्गेन वृद्धे ! तव सुतो मृतः ॥ ३३४ ॥ द्वितीयस्त्वाह मा भ्रातरेवमाकस्मिकं वद । हे ! मातः सत्वरं गच्छ पुत्रस्ते गृहमागतः ॥ ३३५ ॥ मृतप्रत्युज्जीवितेव सा यावत् सदनं ययौ । निविष्टोऽस्ति पुरस्तावदुभूलितपदः सुतः ।। ३३६ ।। ततो हर्षोत्सुका वृद्धा ययौ विद्यामठं गुरोः । पुरश्चोपायनं मुक्त्वा तत् स्वरूपं न्यवेदयत् ॥ ३३७ ॥ उपाध्यायोऽपि तं ज्ञात्वाऽपृच्छद् वत्स ! कथं त्वया । घटभङ्गापशकुनात् कथितोऽस्याः सुताऽऽगमः ॥ ३३८ ॥ शिष्योऽसौ लज्जितः स्माऽऽह प्रभो ! युष्मत्प्रसादतः । उपाध्यायेन भूयोऽपि स्पष्टं पृष्टोऽथ सोऽवदत् ॥ ३३९ ।। मयेत्यनुमितं तावद् घटभङ्गाद् यथाऽमिलत् । मृत्स्ना भूमेजलं नद्यास्तथाऽस्या मिलितः सुतः ।। २४० ॥ ततो हृष्टो गुरुढिमालिङ्ग्य प्रशशंस तम् । अहो ! कुशाग्रसादृश्या मतिरस्य लघोरपि ॥ ३४१ ॥ भद्र ! ज्ञात्वा त्वयाऽप्येवं सूक्ष्मतत्त्व विचारणा ।। गम्भीरमतिना कार्या यथा स्यों महतां गुरुः ॥ ३४२ ॥ बन्धुदत्त इति श्रुत्वा दध्यावेवंविधं श्रुतम् । नित्यं प्रभुपदोपास्ति विना न स्याद् महागुणम् ॥३४३॥ १ क्रियापदम् ।

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500