Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
प्रशस्तिः ।
कलिकुण्डे मथुरायां स्तम्भनके चारुवप्रशङ्खपुरे । नागदे लाटहदे स्वर्णगिरिप्रमुखतीर्थेषु || १ || कलिकलुप गर्वसर्वकषनखमणिकिरणसजलपदपीठः । एकातपत्रमहिमा जयति श्रीपार्श्वनाथजिनः ॥ २॥
( युग्मम् )
कलास्थानकभावेन कलिमानकदर्थनः । कजार्चेन कवित्वेन कल्पितानजते जिनः ॥ ३ ॥ आसीत् स्वामिसुधर्मसन्ततिभवो देवेन्द्रवन्यक्रमः
श्रीमान् कालिकसूरिरद्भुत गुणग्रामाभिरामः पुरा । जीयादेष तदन्वये जिनपतिमासादतुङ्गाचल
भ्राजिष्णुर्मुनिरत्न गौरवनिधिः खण्डिल्लगच्छाम्बुधिः ||१४|| तस्मिंश्चान्द्रकुलोद्भवः कुवलयोद्बोधैकबन्धुर्यशो
ज्योत्स्नापूरितविष्टो विधुरिव श्रीभावदेवो गुरुः । यस्याऽऽख्यानसमानमेष बहुशो व्याचक्ष्यमाणोऽधुना गच्छोऽगच्छदतुच्छ गूर्जर भुवि प्रष्ठां प्रतिष्ठामिमाम् ||५|| मनसि घनविवेकस्नेहसं सेकदीप्तो
द्युतिमतनुत यस्य ज्ञानरूपः प्रदीपः ।
असमतमतमांसि ध्वंसयन्नञ्जसाऽसौ
न खलु मलिनिमानं किन्तु कुत्राऽपि चक्रे ॥ ६ ॥ श्रीमांस्ततो विजयसिंहगुरुर्मुनीन्द्रमुक्तावलीविमलनायकतां वितेने । ज्योतिस्तदुज्ज्वलतरं विकिरन् धरित्र्यां
चित्रं न यस्तरलतां कलयांचकार ॥ ७ ॥
1
दाक्षिण्यैकनिधिर्व्यधान्न सहजे देहेऽप्यहो ! वाञ्छितं

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500