Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 486
________________ श्रीपार्श्वनाथचरिते इन्द्रादेशादथो तत्र चितयोर्न्यस्तदेहयोः । कर्पूर- मधु-सपपि बहुशश्चिक्षिपुः सुराः ।। ३८३ ॥ विकुर्व्यवह्नि वातं च वह्नि वायुकुमारकाः । संचस्करुः क्षणेनैव देहान् स्वामि तपस्विनाम् || ३८४ ॥ अस्थिवर्जजिनाङ्गस्थ दग्धेष्वखिलधातुषु । ४७४ 1 चितां व्यध्यापयन् क्षीराम्भोभिर्मेघकुमारकाः ।। ३८५ ।। दंष्ट्रे जगृहतुः शक्रे - शानावुपरिगे प्रभोः । दक्षिण- वामे चमर-बली चाऽधः स्थिते क्रमात् ॥ ३८६ अन्ये तु वासवा दन्तानार्चितुं दुरितच्छिदे | स्वीचक्रुरितरेऽस्थीनि देवा भस्मादि मानवाः || ३८७ ॥ रत्नस्तूपं चितास्थाने व्यधुस्तुङ्गं सुराः प्रभोः । विश्वाधारं विना भ्रश्यच्चित्तस्याधारदण्डवत् ॥ ३८८ ॥ शोकाख्यं प्रसरद् नाथसूरे दूरं गते तमः । मिथः संबोधदीपेन रुरुधुर्वासवादयः || ३८९ ॥ ततो नन्दीश्वरद्वीपे शाश्वतप्रतिमोत्सवम् । विधाय सर्वे गीर्वाणाः सेन्द्राः स्वस्वाssस्पदं ययुः ॥ ३९० ॥ इन्द्राः स्वस्वविमानेषु सुधर्मायां च पर्षदि । अधिमाणवकस्तम्भं वृत्तवज्रसमुद्रके ।। ३९१ ॥ आवेशयन् स्वामिदंष्ट्रा आनर्चुश्च निरन्तरम् । तासां प्रभावात् तेषां च सदा विजय मङ्गले ॥। ३९२ ।। विश्वातिशायिमहिमा धरणोरगेन्द्रपद्मावती सतत सेवितपादपीठः । अन्तर्बहिश्च दुरितच्छिदनन्तशर्मा देवः क्रियादुदयिनीं शुभभावलक्ष्मीम् || ३९३ ॥ इति श्रीकालिकाचार्यसन्तानीय श्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरिते महाकाव्येऽष्टसर्गे भावाङ्के भगवद्विहारवर्णननिवार्णवर्णनो नामाष्टमः सर्गः ॥ ८ ॥

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500