Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 480
________________ ४६८ श्रीपार्श्वनाथचरितेतन्निशम्य वटाधस्थः श्रीगुप्तोऽचिन्तयद् ध्रुवम् । स एवाऽसौ मुनिः पूर्व यो दृष्टः सुपठन् मया ॥३०६॥ जगाद च शुकं धन्यो भवान् भद्रेति यो मुनिम् । सिषेवेऽहमधन्यस्तु यस्तं दृष्टा नतोऽपि न ॥३०७॥ किंवाऽतीतस्य शोकेन शुकराज ! त्वमेव मे । अधुना गुरुरादेशं देहि धर्मविधौ बुध ! ॥३०८।। तस्याऽथ तत्वं सद्देव-गुरु-धर्मगतं शुकः । आख्याय क्षमयित्वा च ययौ शत्रुञ्जयाचलम् ॥३०९॥ इतश्च पुत्रदुःखेन सार्थवाहो महीधरः। वणिज्यामिषतः पुत्रान्वेषी देशान्तरं ययौ ॥३१०॥ स्थाने स्थाने स तच्छुद्धिं कुर्वस्तत्राऽऽगतः पुरे । अकस्माच तदाऽपश्यनिर्गच्छन्तं वनात् सुतम् ॥३१॥ श्रीगुप्तं वीक्ष्य संजातपुलकाङ्गो महीधरः । आकार्याऽऽलिङ्गितं स्नेहादूचे वत्स ! कुतो भवान् ?॥३१२॥ तेनाऽपि रुदता सर्ववृत्तान्ते कथिते पिता । उवाच पुत्र ! दीक्षायाः कोऽधुना समयो मम?॥३१३॥ किन्तु त्वां वीक्षितुं गेहाद् निर्गतोऽहं ततोऽधुना । सफलो मे श्रमो जज्ञे दृष्टोऽसि त्वं यदक्षतः ॥३१४॥ तथा कथमपीदानी वर्तितव्यं त्वया यथा । आयो भवसि साधूनां याति वंशः समुन्नतिम् ।। ३१५ ॥ श्रीगुप्तोऽपि रुदन्नाह किं तात ! बहुना मयि । अद्यप्रभृत्यविश्वासः काऽपि कार्यो नहि त्वया ॥ ३१६ ॥ ततः पुत्रं सहाऽऽदाय सार्थेशः स्वपुरं ययौ । राज्ञः श्रीगुप्तरत्तान्तः शिष्टो हृष्टश्च पार्थिवः ॥ ३१७ ॥ श्रीगुप्तोऽपि तदारभ्य शुकवाक्यं हृदि स्मरन् । जिनधर्मे तथा सक्तो यथा सत्सु धुरि स्थितः ॥ ३१८ ॥ १ प्रत्यक्षेण ।

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500