Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 473
________________ अष्टमः सर्गः। ४६१ निर्हेतुक्रुद्धः शबरमृगाकं सोऽवदद् नरैः ॥ २१६ ॥ वसन्तसेनां मे यच्छ मन्यस्वाऽऽज्ञां ममेयता। भुझ्व राज्यसुखं नो वा युद्धाय प्रगुणो भव ॥ २१७ ॥ श्रुत्वैवं सोऽत्यमर्षेण ससैन्यो निरगाद् युधि । तदा च वर्धनो राजा जितो नंष्ट्रा ययौ कचित् ॥२१८।। तप्तसंज्ञेन राज्ञाऽथ योधयित्वा निशुम्भितः । रौद्रध्यानवशात् षष्ठं मृगाङ्को नरकं ययौ ॥ २१९ ।। अग्निं वसन्तसेनाऽपि प्रविश्य सहसा मृता। तत्रैवोत्पद्य नरके पतिमार्गाऽनुगाऽभवत् ॥ २२० । उद्धृत्य पुष्करद्वीपे भरते रौरगेहयोः। पुत्र-पुत्र्यावजायतां परिणीतौ च तो मिथः ॥२२॥ ताभ्यां च स्वगृहस्थाभ्यां साध्व्यो ददृशिरेऽन्यदा । .. उत्थाय भक्त्याऽन्नपानः प्रत्यलाभन्त चाऽऽदरात् ॥२२२॥ पृष्टा च बालचन्द्राया गणिन्यास्तौ प्रतिश्रये । अपराह्ने गतौ धर्म शृणुतः स्म च तन्मुखात् ॥ २२३ ॥ .. गृहिधर्म प्रपद्याऽन्ते ब्रह्मलोकं गतावुभौ । ततश्च्युताविमौ जातौ युवामिभ्यसुताविह ॥ २२४ ॥ : ततो भिल्लभवे तिर्यवियोगो यः कृतस्त्वया । अन्वमोद्यनया चासीत् तत्पाकाद् दुःखमीदृशम् ॥२२५।। ... बन्धुदत्तस्ततः माह नाऽन्यो धन्योऽस्ति मत्समः । येनाप्तोऽसि विभो ! जन्मकोटिदुर्लभदर्शनः ॥ २२६ ॥ .. . तव प्रभावतः स्वामिन्नेवमात्मानमुच्चकैः। . श्लाघमानोऽपि नो दोषं प्रत्युताऽहं गुणं लभे ॥ २२७ ॥ . . तमोत्तस्य मे स्वामिनधे व्यक्तीकृते त्वया। दीपेनेवोरगे जातं यातं चाऽद्याऽखिलं भयम् ॥२२८॥ : . इदानीमिह मे नाथ ! यत् कर्तव्यं तदादिश। १ मारितः। २ उपाश्रये ।

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500