Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 477
________________ अष्टमः सर्गः। ४६५ राज्ञा तथाकृते तस्य हतशक्तेः करद्वयम् ।। अदह्यत नृपस्योचैर्जयध्वनिरुदच्छलत् ॥ २६७ ॥ विविधाः सर्वतस्तत्र प्रवृत्ता मङ्गलोत्सवाः । श्रीगुप्तोऽपि तदा पृष्टः सर्वमाख्यद् यथातथम् ॥ २६८ ॥ लज्जया सार्थवाहस्य जीवन मुक्तः स भूभुजा । देशानिष्कासितो भ्राम्यन् ययौ गजपुरं क्रमात् ॥२६९॥ भवितव्यवशात् तत्र दृष्ट्वा कुशलमान्त्रिकम् । क्रुद्धो दध्यावरे ! सोऽयमकारणरिपुर्मम ॥ २७० ॥ ततः खङ्गेन कुशलं हत्वा कुर्वन् पलायनम् । स धृत्वाऽऽरक्षकैस्तत्रार्पितः कारणिकेशितुः ॥ २७१॥ तेनाऽऽदिष्टो वधायाऽसौ नीत्वाऽऽरक्षनरैर्बहिः । श्रीगुप्तः कम्पमानाङ्गः शाखायां लम्बितस्तरोः ॥२७२॥ स्वस्थानं ते नरा जग्मुः कण्ठपाशादितः स तु । भ्रमिते रोदसी पश्यन् कामप्याप क्षणं दशाम् ॥२७३॥ भारेण त्रुटिते पाशे श्रीगुप्तः पतितो भुवि । शीतवातेन चैतन्यं प्राप्य भीत्या पलायितः ॥२७४।। गच्छन् वननिकुञ्जेऽसौ प्रविष्टो मधुरध्वनिम् । शृण्वंस्तत्र ददशैंकं मुनि स्वाध्यायतत्परम् ॥२७५॥ तं पठन्तं भिया वृक्षाऽन्तरितीभूय सोऽशृणोत् । तदा चेत्यपठत् साधुर्जगद्वृत्तं विभावयन् ॥२७६॥ आस्तामन्यजनो हन्त ! स्वीयः स्वात्माऽपि नो भवेत् । एष दुःखावहं पापं करोति कथमन्यथा ? ॥ २७७ ।। किंवासत्यशौचपरा धीराः सद्देव-गुरुमानिनः । पूर्णकामा गुणै:ज्याः पुण्यैः पुण्यानुबन्धिभिः ॥ २७८ ॥ कूपस्य खनको यद् धूलीभिर्मलिनीकृतम् । क्षालयेत् तज्जलेनाङ्ग तथैव पुरुषो यदा ॥ २७९ ॥

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500