Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 474
________________ ४६२ श्रीपार्श्वनाथचरितेतेनेति श्रद्धया नत्वा विज्ञप्तः प्रभुरादिशत् ।। २२९ ॥ ऐहिका-ऽमुष्मिकं सौख्यमिच्छता भविना सदा । कर्तव्यः साधुसंसर्गः परिहार्या कुसङ्गतिः ॥२३०॥ न लडनीयमौचित्यं मान्यः सेव्यश्च सद्गुरुः । प्रवर्तितव्यं दानादौ चिन्तनीया तथाऽऽयतिः ॥२३१॥ विक्षेपः परिहर्तव्यः प्रक्रम्यं योगसिद्धये । नित्यमन्तर्मुखैर्भाव्यं भाव्या वैराग्यभावना ।। २३२ ॥ कार्यो मङ्गलजापश्च गर्हणीयं स्वदुष्कृतम् । चतुःशरणमाराध्यं कार्य पुण्यानुमोदनम् ॥ २३३ ॥ यतितव्यं परे ज्ञाने विचिन्त्यं सन्निदर्शनम् । श्रोतव्यं धर्मशास्त्रं च भावनीयं प्रयत्नतः ॥ २३४ ॥ यतः सद्धर्मशास्त्रस्य पदमात्रमपि श्रुतम् । महारसायनं जन्तोः श्रीगुप्तोऽत्र निदर्शनम् ॥ २३५ ॥ तथाहिअस्त्यत्र भरते नाम्ना वैजयन्ती पुरी वरा । तत्र राजा नलो न्यायवल्लीविस्तारमण्डपः ॥ २३६ ॥ तस्य प्रसादवित्तोऽस्ति सार्थवाहो महीधरः। अशेषव्यसनाऽऽसक्तः श्रीगुप्तो नाम तत्सुतः ॥ २३७ ॥ पुत्रीयाऽनर्थसन्तप्तः सार्थवाहोऽन्यदा ययौ । आगामिदोषरोधार्थ द्वाःस्थमुक्तो नृपान्तिकम् ॥२३८ ॥ सगौरवं स भूपेनाऽऽलाप्य पृष्टः प्रयोजनम् । अधोवीक्ष्य सनिःश्वासं जगाद भयदीनवाक् ॥ २३९ ॥ उत्पन्नं दुःखमन्यस्मात् सुखेनाऽऽख्यायते विभो । शक्यते स्वसमुत्थं तु नाऽऽख्यातुं नैव गोपितुम् ।। २४०॥ राहकान्ते ततो दत्ते विश्रब्धं स व्यजिज्ञपत् । स्वामिन् ! कुलकलङ्कोऽस्ति श्रीगुप्तो नाम मे सुतः ॥२४१॥ , द्वाःस्थो द्वारपालः।

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500