Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 470
________________ श्री पार्श्वनाथचरिते बन्धुदत्तः प्रियां वीक्ष्य मुदितस्तमभाषत । कोऽपराधस्तवाऽयं यः प्रियया माममेलयत् १ ॥१७८॥ इदं तु किं स्वयाssरेभे वृत्तान्तं सोऽप्यचीकथत् । उपयाचितपर्यन्तं बन्धुदत्तस्ततोऽब्रवीत् ॥ १७९ ॥ पुष्पाद्यैरेव पूज्यन्ते देवा जीववधैर्न तु । क्रव्यादा एवं क्रव्यादा देवा देव्यस्तु नेदृशाः || १८० ॥ हिंसामसत्यमन्यस्वं परस्त्रीमतिलोभताम् । वर्जयेरिति बन्धूक्तं स सर्व प्रत्यपद्यत ।। १८१ ॥ बन्धुदत्ताज्ञयाऽमुञ्चत् पल्लीशः सर्ववृन्दगान् । देव्यूचे पात्रगा चार्ध्या पुष्पाद्यैरस्म्यतः परम् ॥ १८२ ॥ तत् श्रुत्वा बहवो भिल्ला बभूवुर्भद्रकास्तदा । प्रियदर्शनया पुत्रो बन्धुदत्तस्य चाऽर्पितः ॥ १८३ ॥ आर्पयद् बन्धुदत्तोऽपि धनदत्ताय तं सुतम् । ममायं मातुल इति निजपत्न्यै शशंस च ॥ १८४ ॥ कृतनीरङ्गिका साऽपि श्वशुरं दूरतोऽनमत् । दत्ताशीः सोऽप्युवाचैवं सूनोर्नामाऽद्य युज्यते ॥ १८५ ॥ बान्धवानामसौ जीवदानादानन्दको हि यत् । बान्धवानन्द इत्याख्यां पितरौ चक्रतुस्तयोः ॥ १८६॥ सकुटुम्बं गृहे नीत्वा नीत्या बन्धुमभोजयत् । भिल्लेशस्तस्य लोप्त्रं च दन्तिमुक्तादि चार्पयत् ॥ १८७॥ बन्धुर्यथेप्सितं दवा प्रेष्य स्वौकसि मातुलम् । ससार्थचण्ड सेनेनान्वितो नागपुरीमगात् ॥ १८८ ॥ तत्राऽभ्येत्य नृपेणाऽसौ गजारूढः प्रवेशितः । पृष्टश्च नृपबन्धूनां स्वोदन्तं सर्वमाख्यत ॥ १८९ ॥ तथा च जिनधर्मानुभावाऽद्वैतं तदाऽवदत् । यथाभूत् सङ्गतो वाढमपि स्याद्वादवादिनाम् ॥ १९० ॥ ५ राक्षसाः । २ मांसाशिनः । ४५८

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500