Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 462
________________ ४५० श्रीपार्श्वनाथचरितेप्रभोः फणिमणिज्योतिःप्लुष्टाऽन्तर्वैरिभूरुहाम् । तत्पल्लवनिभाः पुंसां अन्ये सन्त्येव नाऽरयः ।। ७३ ॥ सनाथानां त्वया नाथ ! श्वापदा विषदे कुतः । तेषां कर्माष्टपाद् मोहशरभः करभायते ।। ७४ ॥ अत्राऽमुत्राऽपि नो तेषां दोष-दौर्गत्यजा विपत् । भवन्तं ये सदानन्दश्रेयोनिधिमधिश्रिताः ॥ ७५ ।। रोगाऽनल-जल-व्याल-चौरा-रि-श्वापदा-ऽऽपदः । बहिरन्तरपि स्वामिन्न भिये त्वयि वीक्षिते ॥ ७६ ॥ तव स्तवनवज्राङ्गीकृतरक्षाः सदा प्रभो!। यान्ति दुर्गमपि श्रेयो भावदेवमुनिस्तुत !॥ ७७ ॥ इति स्तुतिपरे तस्मिन् जिनदत्तोऽर्चितुं जिनम् । तत्रागात् खेचरान् बन्धुं तथा दृष्ट्वा च तुष्टवान् ॥७८।। साधर्मिकत्ववात्सल्यं कर्तुमभ्यर्थ्य ते निजम् । तेनाऽऽनीता गृहं तेषां स्वागतं च कृतं बहु ॥ ७९ ॥ पृष्टाश्चाऽऽगमने हेतुं खेचराः कार्यमैहिकम् । किञ्चित् कूटं विना न स्यादिति ध्यात्वेदमूचिरे ॥८॥ वयं रत्नाचलानेमि नन्तुं रैवतकाचले । गतास्तत्राऽमिलद् बन्धुदत्तोऽयं स्निग्धबन्धुवत् ॥ ८१॥ चक्रे साधर्मिकत्वं च धार्मिकोऽयं ततो वयम् । प्रीत्याऽनेन युताः श्रीमत्पार्थ नन्तुमिहाऽऽगताः ॥ ८२॥ जिनदत्तस्ततो बन्धुदत्तं तद्धर्मरञ्जितः । खेचरैरुपरोध्यैनं स्वपुच्या पर्यणाययत् ॥ ८३ ॥ स्वस्थानं खेचरा जग्मुबन्धुदत्तश्च सप्रियः । तत्रैवाऽस्थाच्चतुर्वर्षी धर्मकृत्यपरः सुखम् ।। ८४ ॥ अथ गुा गुणैर्गुळ प्रियदर्शनयाऽन्वितः । आपृच्छय श्वशुरं बन्धुदत्तः स्वां प्रस्थितः पुरीम् ॥८५॥ १ कर्माण्येवाष्टौ पादा यस्य । २ गर्भिण्या ।

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500