Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 453
________________ सप्तमः सर्गः। ४४१ अथ संपूर्य बोहित्थं रत्नैः स्तोकदिनैरपि । चारुः कृतार्थः स्वस्थानं प्रति गन्तुमना अभूत् ।।७९८॥ हे ! वयस्याः ! कृतार्थाश्चेत् स्वस्थानं गम्यते तदा। इति त्रीनपि योग्यादीन् चारुराकारयत् सह ॥७९९।। तत् तेषु चारुरत्नानि वीक्ष्य तादृगुपार्जनैः । जातश्रद्धोधिकं योग्यः सदैन्यमिदमूचिवान् ।।८००॥ रत्नद्वीपमपि प्राप्य जानताऽपि मया सखे !। तथाविधानि रत्नानि नार्जितानि प्रमादतः ॥८.१॥ ततो मित्र ! प्रतीक्षस्व यथाऽहमपि सम्प्रति । साररत्नानि संगृह्य कृतार्थस्त्वां व्रजाम्यनु ॥८०२॥ हितज्ञोऽपि निजं काच-गवलादिकमर्जितम् । अदर्शयद् ऋजुत्वेन चारोः सोऽथ तमब्रवीत् ॥८०३।। न स्युरेतानि रत्नानि धूतॆस्त्वं मुग्ध ! वश्चितः । त्यक्त्वैतानि तदद्याऽपि यत्नं रत्नार्जने कुरु ।।८०४॥ ततोऽसौ चारुमम्यर्च्य गुण-दोषपरीक्षणम् । शिक्षयित्वा क्रमाज्जज्ञे सम्यग् रत्नपरीक्षकः ॥ ८०५ ॥ काननाऽऽलोकचित्राचं त्यक्त्वा धृतैश्च सङ्गतिम् । शनै रत्नानि संगृह्य हितज्ञोऽपि तमन्वगात् ।। ८०६ ॥ मूढस्तु चारुणा प्रोक्तो दुष्टोत्तरमिवाऽवदत् । न शम्बलमपि भ्रातरास्ति मे करवै किमु ? ।। ८०७॥ चारुणाऽभाणि ते नीवीमर्पयिष्ये, कुसङ्गतिम् । विहाय कुरु वाणिज्यं नेष्यामस्त्वां प्रपाल्य भोः !॥८०८॥ सर्वोऽपि कृत्रिमस्नेहं धत्ते स्वीयोऽत्र कोऽपि न । तस्मादविघटं स्थानं स्वीयमेव हि गम्यते ॥ ८०९ ॥ मूढः स्माऽऽह महाभाग ! यत्रैव मनसो रतिः । तदेव स्थानकं स्वीयं नैवाऽन्यदिति मे मतिः ।। ८१० ॥ १ प्रवहणम् । २ मूलधनम् ।

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500