Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 454
________________ ४४२ श्रीपार्श्वनाथचरितेतदहो ! विविधाऽऽराम-रामा-नाट्यादिकौतुकैः । रमणीयमिदं स्थानं मुक्त्वा नाऽन्यत्र मे मनः ॥ ८११ ॥ इति तं बोधविमुखं ज्ञात्वा मुक्त्वा च ते क्रमात् । गताः खस्थानमानन्दं चाऽऽपुश्चावदियः परम् ॥८१२॥ मूढस्तु व्यसनाऽसक्तस्तत्रैव स्वजनोज्झितः। परिक्षीणधनो धृतर्महादुःखेन संस्थितः ॥ ८१३ ॥ दृष्टान्तोऽयं मयाऽऽख्यातोऽधुनोपनय उच्यते । यद् वसन्तपुरं राशिरेष सांव्यवहारिकः ॥ ८१४ ॥ ये वयस्याश्च चत्वारस्ते यति-श्राद्ध-भद्रकाः । मिथ्यादृष्टिश्च, यो रत्नद्वीपो मर्त्य भवो हि सः ॥ ८१५ ॥ समुद्रलङ्घनं यत् तद् जीवयोन्यवगाहनम् । यानेन द्वीपप्राप्तिर्या तन्मय॑त्वं सुकर्मणा ॥ ८१६ ॥ चारोः पञ्चविधै रत्नैर्यच्च बोहित्थपूरणम् । व्रतानां न्यसनं ब्रह्मपञ्चमानां तदात्मनि ॥८१७।। योग्यस्य काननेच्छा या खल्परत्नार्जनं च यत् । गृहिणो विषयासेवापूर्व सोऽणुव्रतोद्यमः ॥ ८१८ ॥ यद् हितज्ञस्य मुग्धत्वात् काचखण्डादिसंग्रहः । भद्रकत्वेन जीवस्य सा सर्वत्राऽपि धर्मधीः॥ ८१९ ॥ मूढस्य यच्च शुक्त्यादिग्रहणं धूर्तवचनात् । स कुधर्मग्रहो मिथ्यादृशो वैधर्मिकाऽऽज्ञया ॥ ८२० ॥ यत् स्वाऽऽस्पदं गमी योग्य-हितज्ञौ चारुरूचिवान् । यतेरासनमोक्षस्य तज् ज्ञेयं भव्यबोधनम् ॥ ८२१ ॥ यच्च तौ चारुमभ्यर्च्य रत्नान्यार्जयतां पुनः। श्राद्ध-भद्रकयोः साधुधर्माङ्गीकरणं हि तत् ॥ ८२२॥ शिष्टोऽपि चारुणा मूढः स्वस्थानं नाऽगमद् यथा । गुर्वादेशेऽप्यभव्यस्य तथा मुक्तावनादरः॥ ८२३ ॥ १ ब्रह्म ब्रह्मचर्य पञ्चमं येषु तेषाम् ।

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500