Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 439
________________ सप्तमः सर्गः । यान्त्यां कनिष्ठिकामूलाद् रेखायां तर्जनीं प्रति । वृद्धिः स्यादतिवृद्धायां हीनायां हानिरायुषः ।। ६१५ ।। स्थूलरेखा दरिद्राः स्युः सूक्ष्मरेखा महाधनाः । खण्डित - स्फुटिताभिः स्यादायुषः क्षय एव हि ॥ ६१६ ॥ शङ्खग्रीवाः प्रशस्यन्ते शुष्को -ष्ट्रग्रीव कौ न तु । संपूर्णवदनं फुल्लकपोलफलकं शुभम् || ६१७ ॥ कुन्ददन्तो भवेद् भोगी विद्यावान् दन्तुरः पुनः । दुःखितो विकृते रूक्षैर्दन्तैर्मूषकसन्निभैः ।। ६१८ ॥ द्वात्रिंशद्दशनो राजा भोगी स्यादेकहीनकः । त्रिंशद्दन्तास्तु सुखिन एतद्धीनास्तु दुःखिताः ||६१९ || पद्मपत्रसमा जिह्वा रक्ता सूक्ष्मा सुशोभना । हंस - कौश्चखरो धन्यः क्षीण-भिन्नस्वरोऽधमः ॥ ६२० ॥ पार्थिवः शुकनासः स्यात् ह्रस्वनासस्तु धार्मिकः । शूलाग्रा विकृता नासा येषां ते पातकप्रियाः ||६२१|| श्वानतुल्येक्षणाचौराः पिङ्गाक्षाः क्रूरकर्मठाः । गवाक्षाः सुभगा निम्न के केराक्षा दुराशयाः ।। ६२२ ।। आवर्तकर्णा धनिनः स्निग्धकर्णा महासुखाः । भ्रूयुग्मे मिलिते कूपावर्त गल्ले कुशीलता ।। ६२३ ।। ललाटे चार्धचन्द्रामे राजा धर्मिष्ठ उन्नते । विद्याभागी विशाले स्याद् विषमे नैःस्व्यदुःखितः ||६२४ || रेखाः पञ्च ललाटस्थाः समाः कर्णान्तगोचराः । भणितं यस्य गम्भीरं तं विद्यात् सकलायुषम् ||६२५|| छत्राकारं नरेन्द्राणां शिरो दीर्घं तु दुःखिनाम् । अधमानां घटाकारं पापिनां स्थपुटं पुनः || ६२६॥ मृदुभिः श्यामल स्निग्धैः सूक्ष्मैर्भवति भूपतिः । स्फुटितैः कपिलै स्थूलैः रूक्षैः केशैः सुदुःखितः ॥ ६२७॥ १ केकराक्षो वक्रनेत्रः । २ विषमम् । ४२७

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500