Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 8
________________ भवेत्, विवेकं सुसंस्कारांश्च प्रोज्ज्वाल्य स्वयमेवाऽनुशासनरता भवेत्, जागरूका मानवतापूर्णव्यवहारनिरता च भवेत् तदा सर्वत्र व्याप्तस्य भ्रष्टाचारस्य नाशे विलम्बो न भविष्यति, सर्वकारो वा प्रजासेवका वा, अधिकारिणो वा, नेतारो वाऽपि स्वयमेव स्वस्वकार्यनिरता न्यायमार्गपथिकाश्च भविष्यन्तीति निश्चप्रचम् । कदाऽयं जनताजनार्दनो जागरिष्यतीति न जानीमहे । किन्तु वयमेव यदि व्यक्तिगतरूपेणाऽपि यथासम्भवं जागृता भविष्यामोऽन्यांश्च जागरणार्थं प्रेरयिष्यामस्तदाऽस्माकं तु देशस्य समाजस्य च कृते किञ्चनोत्तरदायित्वं निरूढं भविष्यतीति तत् कृत्वाऽपि कृतार्थम्मन्या भवाम इति शम् - भगवन्महावीरजन्मकल्याणकदिनम् कीर्तित्रयी चैत्र-शुक्ला त्रयोदशी, वि.सं. २०७४ वापीनगरम्

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 92