Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ कथा संस्कारप्रपा ( १ ) असंवृतौ द्वारौ एकदा कस्मिंश्चित् स्थले केषाञ्चित् त्रयाणां मनुष्याणां विशिष्टा परीक्षा योजिता । बुद्धिशक्तिपरिचयसम्बन्धिनीयं परीक्षा । एतदर्थं त्रयाणां यूनां लोचनानि पीनपटैः समाच्छाद्यन्त । पश्चात् त्रयोऽपि ते कस्यचिन्महालयस्य समीपमानीताः कथिताश्च - 'युष्माभिः सन्मुखस्थस्य भव्यमहालयस्य द्वारे उद्घाटनीये, अन्तश्च प्रवेशनीयम् । महालयान्तः प्रविश्य यूयं यथेच्छं द्रव्याणि ग्रहीतुं शक्नुयात । बहुमूल्यानि रत्नानि शुक्तिजानि च विद्यन्तेऽन्तः' । मुनि: अक्षयरत्नविजय: त्रयो युवानो द्वारे उद्घाटयितुं नैकान् विकल्पांश्चिन्तितवन्त: । एको युवा प्रोक्तवान्- “अहं मत्कराभ्यां द्वारे प्रचोदिष्यामि ततो द्वारे असंवृते भविष्यतः " । अपरः कथितवान् 'अहं त्वितो गच्छन्तं जनमाकारयिष्यामि, तं च द्वारो: प्रचोदनार्थं कथयिष्यामि " । तृतीयो ब्रूतवान् - "नाऽहं द्वारे प्रचोदिष्यामि, नाऽहं कञ्चिदाकारयिष्यामि, अपि तु द्वारे प्रहृत्य खटखटाशब्दं करिष्यामि । अतोऽन्तः स्थितेन केनचिदपि जनेन द्वारे प्रचोदिष्येते" । - ४० एवंविधं विकल्पयत्सु सत्सु तेषु विवादोऽभवत् 'कस्योपायः श्रेष्ठः' इति । अतस्ते तन्मार्गेण विहरन्तं कञ्चित् सुज्ञजनमाकारितवन्तोऽस्मिन् विषये च पृष्टवन्तो यद् - " द्वारोद्घाटनार्थं वस्तुतः कस्योपायः श्रेष्ठ आचरणार्हश्च ?" " त्रयाणामप्युपाया अनर्हाः" । - आगन्तुकः सुज्ञो जनो विस्मयदमुत्तरं दत्तवान् । “कथमेवम् ?” – त्रयोऽपि साश्चर्या युवानः सहसा युगपत् पृष्टवन्तः । स सुज्ञजनस्तेषां विस्मयं निराकर्तुमुक्तवान् - "महाशयाः ! प्रासादस्य द्वारे प्रथमतोऽसंवृते एव । असंवृतद्वारे पुनः कथमसंवृते करिष्यथ यूयम् ? अतो मयोक्तम् 'युष्माकं त्रयोऽपि विकल्पा अनर्हाः' इति" ।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92