Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 64
________________ मर्म-नर्म -कीर्तित्रयी रमणः गमनः वृत्तपत्रे लिखितमस्ति यत् पञ्चविंशतिः प्रतिशतं महिलाः मानसिकरोगस्यौषधं गृह्णन्ति । एतत् तु अतीव भयानकं भोः ।। कथं ननु ? शिष्टाः पञ्चसप्ततिः प्रतिशतं विनैवौषधं विहरन्ति खलु !! रमणः गमनः यदा भवान् भारतस्य बहुत्र ग्रामेषु विचरेत् तदा भवतः प्रतीतिर्भवेत् यद् जगतो व्यवस्था स्त्रीभिर्भगवता चैव निरुह्यते, पुरुषास्तु केवलं तमाखुसेवनार्थं धूमवर्तिकापानार्थं चैवाऽऽगता: सन्तीति !! अपूर्वः भोः ! जीवने किं प्रवर्तते ? अद्वितीयः ठ-ज्ञ-श-थ-ण-ढ-ल-श्र-ङ-र-छ..... अपूर्वः किं कथयति भवान् ? किमपि नाऽवबुध्यते ! अद्वितीयः तादृशमेव प्रवर्तते !! -. अधीक्षकः अद्य भवान् किं कार्यं कुर्वन्नस्ति ? सहायकः न किमपि महोदय ! अधीक्षकः ह्योऽपि भवता न किमपि कृतमासीत् खलु ? सहायकः आम् महोदय ! ह्यस्तनमेव तन्नैव पूर्णमद्याऽपि !! .

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92