________________
मर्म-नर्म
-कीर्तित्रयी
रमणः
गमनः
वृत्तपत्रे लिखितमस्ति यत् पञ्चविंशतिः प्रतिशतं महिलाः मानसिकरोगस्यौषधं गृह्णन्ति । एतत् तु अतीव भयानकं भोः ।। कथं ननु ? शिष्टाः पञ्चसप्ततिः प्रतिशतं विनैवौषधं विहरन्ति खलु !!
रमणः
गमनः
यदा भवान् भारतस्य बहुत्र ग्रामेषु विचरेत् तदा भवतः प्रतीतिर्भवेत् यद् जगतो व्यवस्था स्त्रीभिर्भगवता चैव निरुह्यते, पुरुषास्तु केवलं तमाखुसेवनार्थं धूमवर्तिकापानार्थं चैवाऽऽगता: सन्तीति !!
अपूर्वः भोः ! जीवने किं प्रवर्तते ? अद्वितीयः ठ-ज्ञ-श-थ-ण-ढ-ल-श्र-ङ-र-छ..... अपूर्वः किं कथयति भवान् ? किमपि नाऽवबुध्यते ! अद्वितीयः तादृशमेव प्रवर्तते !!
-.
अधीक्षकः अद्य भवान् किं कार्यं कुर्वन्नस्ति ? सहायकः न किमपि महोदय ! अधीक्षकः ह्योऽपि भवता न किमपि कृतमासीत् खलु ? सहायकः आम् महोदय ! ह्यस्तनमेव तन्नैव पूर्णमद्याऽपि !!
.