SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ कथा विदुषां सर्वत्र समत्वम् - सा.कल्याणरसाश्रीः विशालवनसमूहेन वेष्टितासु लघुपर्वतमालास्वेको यतिर्वासं कृतवानाऽसीत् । स सप्ताष्टान् छात्रान् अध्यापयत् । छात्राः स्वयमेव काननात्शुष्ककाष्ठानि मृगयित्वा पाकं कृतवन्तः, तं च सर्वेऽखादन् । । एकदा पठितारो बाला आगम्य गुरुमकथयन् यद् - 'भगवन् ! काश्चिद् धेनवश्चरन्त्यश्चरन्त्य आगतवत्यः सन्ति' । गुरुरकथयत् - 'सुष्ठु । तत्रैव लघु पटबन्धनं कृत्वा छायां कुरुत । येन गोमातरस्सम्यग्रीत्या तत्र वसेयुः' इति । एतच्च स्वीकृत्य छात्रास्तथा छायामकुर्वन् । धेनवश्चाऽपि सुखपूर्वकमवसन् सर्वेषां पयो दधि सींषि सुलभान्यभवन् । ततश्च सर्वेऽपि छात्रा हृष्टा अभवन् । दिवसाः सुखपूर्वकं व्यतीताः । अथैकदा पुनरपि छात्रा गुरोः समीपमगच्छन् । गुरुं चाऽकथयन् 'प्रभो ! आगतवत्योऽमूः सर्वाः धेनवः क्वाऽपि गताः' । गुरुरुवाच - सुष्ठ्वभूत् । गोमयादिमार्जनस्य चिन्ता गता' । सर्वे छात्रा अकथयन् -- 'यदा धेनव आगतवत्यस्तदा भवान् कथितवान् - "शोभनं जातम्" । यदा धेनवश्चलितवत्यस्तदाऽपि भवान् कथितवान् - "शोभनं जातम्" । वयं मन्यामहे यद् भवता द्वयोर्मध्ये साम्यमेव दृश्यते । एतत् किमर्थम् ?' ____ गुरुराह - 'ओम् । अध्ययनस्य सार एवाऽसावस्ति । यदि दृष्टिरीदृशी संस्कारवती भवेत् तर्हि यद् शोभनं स्यात् तदेव दृष्ट्यामागच्छेत् । सर्वत्र च समत्वं स्थिरीभवति । ___ अस्माकं सुष्ठ दर्शनाय एव लोचने प्राप्ते स्तः । तयोः सार्थकता तस्मिन्नेवाऽस्ति यद् यदा - यदा दर्शनं भवेत् तदा - तदा सुष्ठ दर्शनमेव तद् भवेत् - इति ।
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy