SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कथा समतायाश्चेतना -सा.संवेगरसाश्रीः काश्मीरभाषाया एका प्रसिद्धा सती कवयित्री आसीत् । हिन्दीभाषीजनास्तां 'लल्लेश्वरी' इति कथयन्ति स्म ! शिवस्य भक्त्यां वसन्त्यास्तस्याः कवयित्र्या जीवने सत्यशिवसुन्दराणां अपूर्वस्समन्वय आसीत् । सा विरक्त्याः, भक्त्याश्च प्रतिकृतिः आसीत् । विरक्त्याः पराकाष्ठां स्पृशन्ती सा शिवस्वरूपे लीना भूत्वा देहं मनश्चाऽपि विस्मरति स्म । प्रसन्नतया च सा ग्रामाद् ग्रामं पर्यटति स्म । तां दृष्ट्वा केचन जनास्तस्या उपहासं कुर्वन्ति स्म । केचन जना निन्दन्ति स्म । केचन जना द्वेषदृष्ट्या पश्यन्ति स्म । केचन प्रशंसन्ति स्म । केचन जना अपमानमपि कुर्वन्ति स्म । किन्तु लल्लेश्वरी अमुष्याः सर्वस्याः परिस्थित्या अप्रभाविता आसीत् । एकदा लल्लेश्वरी मार्गे चलन्ती आसीत् तदा पञ्च-षा बालास्तस्याः पश्चाद् गत्वा तामबाधन्त । तदृष्ट्वा एको विपणिको बालानताडयत् । ततस्ते सर्वे बाला अधावन् । तदा लल्लेश्वरी तत्रैवाऽतिष्ठत् । मनागग्रे गत्वा सा हट्टादेकं पटमयाचत् । तं पटं सा समानतया व्यभजत् । तत एकं खण्डं दक्षिणे स्कन्धे, द्वितीयं खण्डे च वामस्कन्धे साऽधरत् । ततश्च साऽग्रेऽचलत् । यदि मार्गे कोऽपि नमस्कार कुर्यात्, तदा सा दक्षिणपार्श्वस्य पटे एकं ग्रन्थिं बध्नाति स्म । यदि कोऽपि तस्या निन्दां कुर्यात्, तदा सा वामपार्श्वस्य पटे एकं ग्रन्थिं बध्नाति स्म । आदिनं सा एवमकार्षीत् । सायंकाले सा तस्मिन्नेव मार्गे पुनरागमत् । तस्य विपणिकस्य पार्श्व गत्वा द्वे अपि वस्त्रखण्डे सा अतोलयत् । तदा तयोर्वस्त्रखण्डयोर्मध्ये किमप्यन्तरं नैवाऽऽसीत् । तद् दृष्ट्वा लल्लेश्वरी विपणिकमकथयत् - 'बन्धो ! पटे ग्रन्थयो बहवो वा अल्पे वा स्युस्तथापि पटस्य परिमाणे किमप्यन्तरं नास्ति । तथा कोऽप्यस्माकं निन्दां कुर्यात् प्रशंसेद् वाऽस्मान्; कोऽपि द्विष्यात्, पुरस्कुर्याद् वा, तथापि समतया रचितायां चेतनायां किमप्यन्तरं नास्ति । समत्ववतो जनस्य कृते द्वे विपरीते परिस्थिती समाने एव स्तः ।। R
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy