Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________ यदा मम मृत्युभविष्यति तदा भवान् मम स्वजनान् मिलितुं गमिष्यति, किन्तु मया न ज्ञास्यते तत् ! तर्हि, इदानीमेवाऽऽगच्छतु किल मां मिलितुम् ! यदा मम मृत्युभविष्यति तदा भवान् मम सर्वानप्यपराधान् क्षमिष्यति परमहं तन्नैव ज्ञास्यामि कदाऽपि ! तर्हि, अद्यैव क्षमतां खलु माम् !! यदा मम मृत्युभविष्यति तदा भवान् मां सम्मानयिष्यति, मद्विषये च सद्भावं प्रकटयिष्यति, किन्तु नाऽहं भविष्यामि तत् श्रोतुम् ! तर्हि अद्य तत् सर्वं करोतु ननु !! यदा मम मृत्युभविष्यति तदा भवतः प्रतिभास्यति यद् - यदि जनेनाऽनेन सह कालो यापितोऽभविष्यत् तदा शोभनमभविष्यत् ! तर्हि अद्यैवाऽऽगच्छतु मया सह कालयापनार्थम् !! अत एव कथयामि - मा प्रतीक्षताम् ! प्रतीक्षायां कदाचिद् भूवान् विलम्बो भविष्यति ! एतदर्थं संमिलतां क्षमतां क्षमवतां च ! - ओशो Kirit Graphics 09898490091

Page Navigation
1 ... 90 91 92