Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 65
________________ मर्म-नर्म -मुनिश्रुताङ्गरत्नविजयः पिता पुत्रः पुत्रक ! परीक्षायां किमर्थं त्वं प्रश्नत्रयस्यैवोत्तराणि लिखितवान् ? सर्वदाऽल्पेनैय सन्तोष्टव्यमिति तु भवतैव शिक्षितं किल !! रमा रमेशः रमा रमेशः पुरुषाः किमर्थं वृद्धावस्थायां केशहीनाः खल्वाटा भवन्ति ? यतस्ते आजीवनं मस्तिष्कोपयोगेनैव कार्यं कुर्वन्तीति । तर्हि स्त्रीणां का कथा ? तास्तु सर्वदा मुखोपयोगमेव कुर्वन्ति, ततश्च तासां मुखं श्मश्रु-रोमादिहीनं भवति !! शिक्षकः कथयतु पिपीलिका अस्मान् कथमुपकुर्वन्तीति । सोनुः पिपीलिका अस्मान् ज्ञापयन्ति यद् मिष्टान्नं कुत्र निहितमिति !! - .(रेल्याने यात्रां कुर्वाणौ द्वौ जनौ-) एक: कोऽस्ति भवान् ? अपरः (सगर्वम्) अहमेकः कविरस्मि । अथो भवान् ? एक: अहं बधिरोऽस्मि !! स्वज्ञः वदतु भोः ! यदा मया केषाञ्चित् प्रश्नानामुत्तराणि दातव्यानि तदा तानि हृदयमुपयुज्य दातव्यानि उत मस्तिष्कम् ? भवत्सकाशे यद् वर्तेत तदुपयुज्य ननु !! सुज्ञः

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92