Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
इह सखि ! तिष्ठ निषीद, स्वच्छन्दं रमस्व सखि ! कुतो यासि ? । रुष्टा किमसि प्रसीद, काञ्चनपात्रं गृहाणेदम् ॥१०॥ सखि ! नाऽऽयातो दयितः ?, सखि ! मा वद स खलु रतोऽन्यस्याम् । मन्ये मानवती त्वं, योग्या सा नास्ति तद्योग्या ॥११॥ मूर्योऽथवाऽपि धीमान्, अस्त्येष तव बत गर्हितो रमणः । इति हसति सखीलोकः, कथयाम्यथवा किमेवं ते ॥१२॥ विजिताप्सराः सखी मम, नन्वतिधृष्टोऽपि कलहशीलोऽसौ । अस्या असि भृत्यस्त्वं, शठोऽसि रे रे किमसि दृष्टः ॥१३॥ अहह प्रियो नतस्त्वां, ताम्यसि किं किमेष ते दयितः ? । अन्यासक्तः सुभगेऽत्याश्चर्यं तवेदृशो मानः ॥१४॥ हर्षः प्रियस्य समय, आयाति बिभेमि रोषणः परमः । कष्टं सखि ! खिन्नाऽस्मि, तथाऽनुतप्ता वृतः केन ? ॥१५॥ अयि ! रतिगृहात् किमेषि ? म्लानाऽसि सखि ! प्रियोपभुक्ता किम् ? । जानेऽथवा न जाने, नास्ति यदङ्गं न जानाति ॥१६॥ दास इति न मुञ्चसि, प्राप्तस्त्वामात्मना प्रियो नियतम् । ज्ञातं तव नैपुण्यं, यत् प्राप्तं वल्लभं त्यजसि ।१७।। प्रत्येकमन्यदयितास्तासां प्रत्येकमपि च प्रेयांसः । प्रत्येकं मित्राणि च, समालपन्तेति ते दयितः ॥१८॥ पश्याऽयं तव दयितो, दृष्ट्वेमं दृश्यसे सरोमाञ्चा।। वच्मो न वयमितरथा, विज्ञातमिदं यतस्त्वरितम् ॥१९॥ मा ताम्य मुधा प्रेयसि !, दरविकसितबन्धुजीवकुसुमोष्ठि ! । अनुशोचसि धूर्तमिमं, मृदुस्वभावं कथं रमणम् ? ॥२०॥ एषाऽस्ति वारवनिता, मत्वोष्मनिर्वृतिं प्रवृत्ता या । इति यं तमपि लपित्र्योः, पक्वद्राक्षारसं पिबन्ति ॥२१।। एकैकमेष सा मधुरैकैकमेष स खलु रसालोऽपि । लोकाः पथिकान् हन्ताऽऽलीनां रवेणेवमाह वनम् ॥२२॥ खर्जूरैश्च प्रियालैः, पनसैरपि च दर्शितफलादस्मात् । हर्षादतिदूरादपि, को वाञ्छति नेदमुद्यानम् ? ॥२३॥

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92