Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 77
________________ कोऽपि युवा वृततरुणः, सहाऽऽत्मनाऽतिप्रयां जले नेतुम् । स्वयमेव रोषयित्वा, स्वयमेवाऽऽर्जयद् भूयः ॥६६॥ अन्येऽपि नृपा अखिलाः, क्षिपन्ति धारागृहेऽपि सर्वस्मिन् । सर्वत्र स्त्रीलोके, सर्वत्र जले तथाऽन्यस्मिन् ॥६७।। केशा अन्यस्मिन् पुन-रन्यस्मिन् कुसुमानि सन्ति खलु हाराः । पश्य मृगाक्षीलोके, जलरन्तरि विशेषरभसेन ॥६८।। कस्यां यस्यां स्यां, रमतेऽयं नृपबटुर्न वनितायाम् । कस्यां यस्यां तस्यामपि चतुरायां निहितचित्तः ॥६९॥ जलयन्त्रस्थानेऽस्मिन्, जायन्ते सलिलोत्सवेषु नखराङ्काः । सर्वस्मिन्नन्यस्मिन्, युव-युवतीनां प्रकाशाश्च ॥७०।। सर्वेषामन्येषामपि यूनां कलकलोऽत्र युवतीनाम् । केषां नहि खलु रम्यः ? कासां चेतसि न राति सन्तोषम् ? ॥७१॥ किन्नरमिथुनसदृक्षा, रन्तारस्तरुणा मिथो हि रममाणाः । गायन्ति न ते केऽत्र ? वारिणि कास्का न सस्नेहम् ? ॥७२॥ कस्याऽपि तस्य यूनः, कस्यास्तस्याश्च तत्र खलु युवतेः । न चेक्ष्यते तनुयष्टिर्या न रोमाञ्चकञ्चुकिका ? ॥७३॥ पुंशब्दो यस्य मतो, यस्य च जलकेलिकालदुर्ललितः । स हि यां काञ्चित् तरुणीमनुगच्छति कामसन्तप्तः ॥७४॥ कस्या यस्यास्तस्या प्रणालिकाया निरासितं नीरम् । कस्या अपि च युवत्या, बाह्यं न किञ्चिदपि जातम् ॥७५।। कस्मिन्न नागसद्मनि, काले त्रिदशालयेऽपि नो कस्मिन् । कस्मिन्नपि भूलोके, जलयन्त्रं नेदृशं जातम् ॥७६।। सलिलेन यदा पूर्णं, जलयन्त्रं जलक्षणोऽभवत् तत्र । दौवारिकेण चोक्तो, वृत्तान्तोऽयं नरेन्द्राय ॥७७|| ग्रीष्मो यदा प्रवृत्तः, प्रावृट् तस्मिन् क्षणेऽभवद दृश्या । सलिलक्षणे तु जाते, दृक्पथमाप्ता क्षणे तस्मिन् ।।७८॥ ॥ चतुर्थः सर्गः सम्पूर्णः ॥ ६७

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92