Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
निघृण ! मायाविपित-र्मच्चक्षुर्गोचराज्झटिति गच्छ । काऽपि जलान्तरपासित-वस्त्रं दयितं बभाणेत्थम् ॥५२॥ कर्तः ! किमहं विहिताऽऽकर्णय वाक्यं प्रिये ! निरीक्षस्व । अम्बाऽन्यस्यां रमते, प्रिय इति कृत्वा कयाऽपि संरुदितम् ॥५३॥ सखि ! वरवधु ! त्यजेमं, हालिकमिव शुद्धकर्षकाङ्गनया । रन्तारं जलमध्येऽनयेति काचित् समादिष्टा ॥५४॥ जामातरो रमन्ते, पश्य जले पुनरपूर्वसौन्दर्यम् । अपरः कः खलु सुभगोऽसतीभिरुक्तं पुनः काभिः ॥५५॥ रे ! त्वं धूर्तपिताऽसि, गौरीशं शपामहे जगत्पितरम् । शपस्व तावक पितरं, भर्ताऽसि त्वं किमस्माकम् ? ।।५६।। यासां वशे स्वदयितास्तासां धन्या हि मातरो जगति । जनिताः किं तन्मात्रा ?, किं महिता मातरो मयका ? ॥५७।। देवाः पितरः शरणं, संहर भुवनत्रयस्य कर्तेमाम् । अन्यस्या जलदाने, दयितं प्रति कयाचिदित्युक्तम् ॥५८॥ राजन् ! विज्ञपयामि, सततं त्वं देहि सर्वतो दृष्टिम् । पश्य नृपाः केऽपीह, केऽपि रमन्तेऽथ राजानः ॥५९।। वाराणस्या राज्ञश्चेदिनगर्याः पुनश्च भूपालान् । मथुराया अपि राज्ञोऽधिकतरसलिलक्षणो जातः ॥६०॥ इह हूणानां पतिना, पश्येह नृपा लसन्ति रममाणाः । अङ्गनामथ राज्ञा, शकभूपतिनाऽपि सस्नेहाः ॥६१॥ परतो यादवराजान्, चेदीशानधि तथा च भूपालान् । राजन्यपि चाऽराजनि, तुल्या समजनि जलक्रीडा ॥६२।। इह जलमज्जनकाले, राज्ञां पौरैः समं मिथः समो भावः । राजानमराजानं, क्रीडन्तं पश्य नरपतिभिः ॥६३।। यान्ति नृपेभ्यो राजसु, राज्ञां चेतोहरा इमा वनिताः । सलिलक्रीडानिरतैर्भूपतिभिः साम्प्रतं पश्य ॥६४।। उच्छाल्यन्ते राज्ञाऽराज्ञा समं च वारिणो लहर्यः । मगधस्याऽथ च कोशलदेशस्याऽपि प्रभोः सविधे ॥६५॥

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92