Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
गुरुकृपायाः फलम्
गुर्वाज्ञापालनान्मुक्तिर्गुरुभक्त्या विशुद्धधीः । गुरोश्चरणयोर्ज्ञानं गुरुसेवा च सिद्धिदा ॥
गुरुस्मरणं शान्तिदं, गुरुवचनं भ्रान्तिहरं, गुरुस्तवनं प्रसन्नताकरं, गुरुकृपा सर्वदा प्राप्यतामिति प्रार्थना । इसादनाम्नि प्रदेशे एका थेरेसाभिधा साध्वी वसति स्म । साऽत्यन्तं प्रभुभक्ताऽऽसीत् । तन्मनस्येकदा भावना जागृता यदत्र प्रदेशे एको देवालयो निर्मितो भवेद् यस्य शिखरं गिरिशिखरमिवोन्नतं स्यात्, तच्च द्रष्टुं सर्वेऽपि जना आगच्छेयुरिति ।
-सा. ध्यानरसाश्री:
एवं प्रतिदिनं भावयन्ती सैकदा स्वीयां भावनां ग्रामवासिभ्यो जनेभ्यो निवेदितवती यद् 'यदि भवन्तो मे साहाय्यं कुर्वन्ति तर्ह्यत्र प्रदेशे एकं समुत्तङ्गशिखरं देवालयं निर्मापयितुमिच्छामि' । जनैः सहर्षं तस्या भावनाऽङ्गीकृता । ततस्तया जनानां समक्षं स्वीया दानपेटिका न्यस्ता कथितं च - 'अस्यां यद् दानमागमिष्यति तेन देवालयो निर्मापयिष्यते' । ग्रामवासितो यथाशक्ति तस्यां धनं निक्षिप्तवन्तः । किन्तु यदा तद् धनं दृष्टं तदा तद् रूप्यकत्रयमात्रम् ! एवं कथं देवालयो निर्मितो भवेत् ?' परन्तु साध्वी थेरेसा तु तद् रूप्यकत्रयं दृष्ट्वाऽपि हृष्टाऽभवत् । जनैः पृष्टम् 'एतावन्मात्रेन धनेन किं भविष्यति ?' तयोक्तं – 'भवन्तो मां धनं चैव पश्यन्तः सन्ति किन्तु द्वयोरप्यनयोर्मध्ये स्थितां गुरुकृपां नैव पश्यन्ति । अहमेकला खलु कोटिमितेन द्रव्येणाऽपि देवालयं निर्मातुमशक्ता, गुरुकृपया च सैवाऽहं रूप्यकत्रयेणाऽपि देवालयं निर्मापयिष्यामि' ।
-
४८
-
ततस्तस्या भावनानुसारमुत्तुङ्गशिखरोन्नतो महादेवालयस्तत्रैव प्रदेशे तेन रूप्यकत्रयेणैव निर्मितोऽभवत्, यो जगतः श्रेष्ठ देवालयेष्वेकतमोऽस्ति । तस्य देवालयस्य भित्तौ स्थिते शिलालेखे लिखितमस्ति यद् एका महिला गुरुकृपाबलेन केवलं रूप्यकत्रयेणैव देवालयमिमं निर्मापितवती - इति ।
T
"गुरौ यदि श्रद्धा भवेत् तदाऽशक्यमपि कार्यं सुशकं भवेत्” ॥

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92