Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
को मूर्खः ?
-सा.पुण्यधराश्रीः
एकदा भोजराजोऽकाले एवाऽन्तःपुरं गतवान् । स च स्वस्याः सख्या सह कामपि गुप्तवार्ता कुर्वन्त्या राज्या अत्यंतं समीपं गतः । तदा च राज्या 'आगच्छतु मूर्खराज !' इति उपहासवचनैः स संबोधितः । 'केन च कारणेनाऽहमीदृशैः शब्दैः संबोधितः?' इति अजानन् राजा स्वस्य मनसः शङ्काया निवारणार्थं सभां गत्वा राजसिंहासने चोपविश्य आगच्छतः सर्वान् सभाजनान् ‘आगच्छतु मूर्खराज !' इति कथयन् आस्ते । ___ 'अद्य पार्थिवेन वयं 'मूर्खा:' किमर्थं आहूताः ?' इति केनचिदपि न ज्ञातम् ! ततः प्रान्ते आगच्छन्तं कालिदासमपि एवमेव कथयति सति तेन शीघ्रतया प्रत्युक्तं -
"खादन् न गच्छामि, हसन् न जल्पे, गतं न शोचामि, कृतं न मन्ये । द्वाभ्यां तृतीयो न भवामि राजन् !
किं कारणं भोज ! भवामि मूर्खः ?" 'एताभ्यः पञ्चभ्यो मयैकतमाऽपि मूर्खता नाऽऽचरिता तर्हि केन कारणेनाऽहं मूर्यो भवामि ?'
एतत् श्रुत्वा राज्ञा ज्ञातं यत् - 'मया वार्ता कुर्वत्योस्तयोर्द्वयोर्मध्ये गतम् । तेनाऽहं तया "मूर्खः" इति सम्बोधितः ।
XX
४९

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92