Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
कृतज्ञता
- सा. तत्त्वनन्दिताश्री:
अमेरिकादेशे स्टानफोर्डविश्वविद्यालयो नाम महाविद्यालय अस्ति । तस्मिन् महाविद्यालये हर्बर्टनामा एकश्छात्र: पठति स्म । स अध्ययने कुशल आसीत्, किन्तु तस्य स्थितिर्विकलाऽऽसीत् । गृहस्य भारमपि स स्वयमेव वहति स्म । ततो महाविद्यालयस्य शुल्कं कथं भरणीयमिति तस्य समस्या आसीत् ।
सोऽचिन्तयत्, यत् क्वाऽपि कार्यं कृत्वा शुल्कं भरिष्यामि, अथवा संगीतस्य कमपि कार्यक्रमं प्रयोज्य अहं विद्यालयस्य शुल्कं भरिष्यामि ।
तावता विश्वविख्यातः पियानोवादकः पेड्रेवेस्कीस्तदा अमेरिकायामागतः । ततः पेड्रेवेस्क्या सह मिलित्वा स संगीतस्य कार्यक्रमस्याऽऽयोजनमकरोत् । पेड्रेवेस्क्यः शुल्कं सहस्रद्वयडोलरमितमासीत् ।
हर्बर्टस्तु कार्यक्रमस्य स्थलचयनार्थं प्रवेशपत्रप्रकाशनार्थं च प्रयत्नमकरोत् । तस्मिन् विषये तस्य कोऽप्यऽनुभवो नाऽऽसीत् समयश्चाऽल्प आसीत् । ततः प्रवेशपत्राणि पर्याप्ततया न विक्रीतानि । कार्यक्रमोऽभवत्, किन्तु लाभोऽल्प एवाऽभवत् ।
हर्बर्ट: पेड्रेवेस्क्या पार्श्वमागतः । पेड्रेवेस्क्ये स षोडश शतानि डोलराणां दत्तवान् शतचतुष्कस्य च धनादेशं च अददात्, सर्वां वार्तां चाऽकरोत् । पेड्रेवेस्कीः सज्जनो जन आसीत् । सोऽकथयत् "पश्य, प्राक् त्वं महाविद्यालयस्य शुल्कं ददातु पश्चात् यद् वर्धते तद् मह्यं देहि " । पेड्रेवेस्क्यो वचनमिदं श्रुत्वा हर्बर्ट आनन्दितोऽभवत् महाविद्यालयस्य च शुल्कं सर्वमपि दत्तवान् ।
ततो हर्बर्टो भृशं समुद्यतो भूत्वाऽपठत् स्नातकश्च सञ्जातः । ततो विविधानुद्योगान् कुर्वन् स एकदा अमेरिकीयसंसदि उच्च स्थानमासवान् ।
तदा पोलेन्डदेशस्य राष्ट्रनायक: पेड्रेवेस्की आसीत् । तस्मिन् समये द्वितीयं विश्वयुद्धमभवत् । पोलेन्डस्य सर्वे पन्थानो युद्धस्य कारणात् संरुद्धा अभवन् । देशवासिनो जनाः खादितुमन्नं नाऽलभन्त । तदा राष्ट्रनायकः पेड्रेवेस्की : अमेरिकादेशं साहाय्यार्थं प्रार्थयत् ।
५०

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92