Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ इतो हर्बर्टहूवर: पेड्रेवेस्क्या नाम शृण्वन् एव तस्य संगीतकार्यक्रमस्य घटनां समस्मरत् । स सद्योऽकथयत् "भवान् कामपि चिन्तां मा कार्षीत् । अहमन्नं प्रेषयामि " । ततो यथेच्छमन्नं प्रेषितवान् सः । एतेन पोलेन्डदेशवासिनो जना रक्षिता अभवन् । "हे एतद् दृष्टवा सज्जन: पेड्रेवेस्की : हर्बर्टस्य कृतज्ञतामदर्शयत् । किन्तु हर्बर्टोऽकथयत् यत् सज्जन ! मयैव भवतः कृतज्ञता दर्शनीया यतो बहुवर्षेभ्यः पूर्वं भवता मम महाविद्यालयशुल्कदाने साहाय्यं कृतमासीत् । अतोऽहं भवत उपकारं मन्ये, अद्य च तदुपकारस्य प्रतिदानार्थमवसरः प्राप्त इति प्रसीदामि च । ततश्च हर्बर्टहूवरोऽमेरिकाया राष्ट्रप्रमुखोऽप्यभवत् किन्तु प्रेड्रेवेस्कीं कदाऽपि न व्यस्मरत् । 'स्वस्य उपकारिणं यः कदाऽपि न विस्मरेत् स कृतज्ञः " । ५१ -

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92