Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ कथा भर्जकविक्रेता - अम्बाराम: -डॉ. हर्षदेव-माधवः अम्बारामः अस्माकं वरतेजग्रामस्य एको लघुको वणिक् । स प्रतिदिनं करण्डे भर्जकान् विक्रेतुं तुलया सह ग्रामस्य रथ्याया रथ्यां गच्छति स्म । श्वेतनलितवस्त्रे, पादयोः प्लास्टिकपादत्राणे, मस्तके रक्तवर्णं शिरोवेष्टनं, प्रस्वेदसिक्तं मुखम् - एतानि अम्बारामस्य चरित्रलक्षणानि । भर्जकैः सह तिन्तिडीपत्रनिर्मितस्य उपदंशस्य अलौकिक: स्वादः स्मर्यते अद्याऽपि । अम्बारामोऽतीवाऽकिञ्चन आसीत् । अत आपणे व्यापारं कर्तुं तस्य शक्तिर्नाऽऽसीत् । स प्रातःकाले भर्जकान् अपचत्, मध्याह्ने विक्रेतुं स्वयमेव करण्डकेनाऽभ्राम्यत् । तेषु दिवसेषु रूप्यकाणां महद् मूल्यमासीत् । बालका मातुः सकाशाद् वा पितुः सकाशाद् दशपैसामितं धनं शालायां मध्याह्नावकाशे स्वल्पाहारार्थमलभन्त । अतः पञ्चदिनानि यावद् धनसञ्चयं कृत्वा अर्धरूप्यकं दत्त्वा वयं सप्ताहे एकवारं शतग्राममितान् भर्जकान् अक्रीणीम । तिन्तिड्या उपदंशेन सह भर्जकान् खादनकाले परमसुखानुभवोऽभवत् । अम्बारामोऽपि शालाया बहिरेव आगत्य आक्रोशत्, 'भर्जकाः । उष्णा भर्जकाः ।' किन्त भर्जकास्त अनष्णा यातयामा एव अभ कदाचिद गृहगमनकाले अम्बारामस्य एककक्षात्मके गृहे कुटीरे कटाहे उष्णतैले भर्जकपिण्डान् क्षिपन् चणकचूर्णं मर्दयन् अम्बारामोऽस्माकं प्रियोऽवर्तत । अम्बारामोऽप्यस्मान् वीक्ष्य प्रसन्नवदनः 'क्रेतारः' इति मत्वा लोलुपदृष्ट्या सदैवाऽपश्यत् । शालाया अवकाशकाले स स्वग्रामं गत्वा पुनर्व्यापारमकरोत् । जुलाईमासस्य एकस्मिन् दिनेऽम्बारामस्य स्वास्थ्यं प्रतिकूलमभवत् । सप्ताहपर्यन्तं तस्याऽऽगमनं शालाया बहिर्नाऽभवत् । अध्ययनं समाप्य यदा वयं तस्य कुटीरस्य निकटे अपश्याम, तदा तदा जनकदम्बकमासीत् । विक्रयोत्तरमवशिष्टान् यातयामान् भर्जकान् जग्ध्वा स रुग्णो जातः, उदररोगेण मृतश्च । एकाकिनस्तस्य श्मशानयात्राव्यवस्थां केचित् सेवकाः कुर्वन्ति स्म । अस्माभिरपि भर्जकान् खादितुं यो धनसञ्चयः कृतः, स तेभ्यो दत्तः । ४६

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92