Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 52
________________ न पृष्टवान् यद् - "प्रभो ! अहमेव कथम् ? चषका) कोऽप्यन्यो न दृष्टस्त्वया ? यत् पुरस्कारचषकमिदं त्वया मह्यमेव दत्तम् ?" तर्हि दुःखसमयेऽप्यधुना मया परमात्मने कथमुपालम्भो दीयेत यद् – हे ईश्वर ! त्वया दुःखदानार्थमहमेव कथं दृष्टः ? इति । अधुना तु 'यादृशीश्वरेच्छा' इत्येव विचारणीयं, नान्यत् किञ्चित्" । कीदृशमद्भुतमुत्तरम् ? उत्तरमिदमन्तःकरणे नित्यं स्थापयितव्यम् । यतो वयमप्येवं विचारकाः स्मः - षष्टिः पञ्चषष्टिा वर्षाणि यावत् सुखमयं जीवनं व्यतीतमस्माभिः, तत्कृते परमेश्वरस्योपकारं कदाऽपि न मन्यामहे वयम् । किन्तु जीवनस्याऽन्तिमवर्षेषु केनचित् कर्कसदृशेन रोगेन वयं पीडिता भवेम तदा वयमीश्वरस्य पुरतः स्वदुःखं मुहुर्मुहुः प्रकटयामः । आगम्यताम्, इत आरभ्य वयं 'अहमेव कथमिति' अस्मदीयनिर्बलवृत्तेः परिवर्तनं कुर्याम । (२) जीवनसाफल्यम् वयं जीवनं जीवामः, परं 'जीवनसाफल्यं किम् ?' इति सत्यं न जानीमः । एकप्रसङ्गमाध्यमतो वयमद्य जानीयाम 'जीवनसाफल्यं किम् ?' इति । एकदा गङ्गानदी तितीर्षवस्त्रयः सुहृदो नौकामुपविष्टवन्तः । नौकाविहारः प्रारब्धः । स्तोकसमयानन्तरं प्रथमं मित्रं नौचालकेन सह सम्भाषणं प्रारब्धवत् - "मित्र ! त्वया कियानभ्यासः कृतः ?" नाविकः प्रत्युक्तवान् – “महाशय ! अहं त्वबुधो ग्रामीणः । कोऽभ्यासो मम ? मया तु किञ्चिदप्यध्ययनं न कृतम् । पाठशालाऽपि न दृष्टा मया" ।। "किम् ? पाठशालाऽपि न दृष्टा ?" प्रथमं मित्रं साश्चर्यमवदत् - "तहि तव पादमितं जीवनं जलान्तर्गतमिव निरर्थकम् । ज्ञानं तु जीवनेऽत्यावश्यकम्, यतः शास्त्रेऽपि कथितं 'ज्ञानेन हीना: पशुभिः समानाः' इति" । स्तोकक्षणानन्तरं द्वितीयं मित्रं नाविकं पृष्टवत् - "भोः ! त्वं घटीदर्शनं तु जानासि न वा ?" स उत्तरं दत्तवान् – “महानुभाव ! कीदृशी घटी ? अहं तु नित्यं सूर्यचन्द्रदर्शनेनैव समयनिर्णय करोमि । नाऽहं जानामि घटीदर्शनम् ।" "रे ! रे ! मित्र !" द्वितीयः सुहृत् कथितवान् – “तदा तवाऽधू जीवनं जलान्तर्गतम् । ईदृक् सामान्यकार्यं तु जनेन शिक्षणीयमेवेति" । "कामं भ्रातः ! कामं मज्जीवनं जलान्तर्गतम् । एवमप्यहं जलमध्य एव निवसामि" । अत्रान्तरे तृतीयः सहचरोऽपृच्छत् - "भोः ! त्वं रूप्यकाणि गणयितुं शक्नोषि न वा ?" ४२

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92