Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राक्षिपत् । श्रेष्ठी मृतः । ततस्स बालक आनन्दमनुभवन् गृहमागतवान् । कथं श्रेष्ठी नाऽऽगतवान् ? इति श्रीमत्या पृष्ठो बालक उक्तवान् - मातर् ! श्रेष्ठी तु धनार्थमन्यत्र गतः । श्रीमत्या तु विश्वसनीयबालकस्य वचनं स्वीकृतम् । एवं दिनद्वयं समाप्तं, तथाऽपि श्रेष्ठी नाऽऽगतः । तस्य न कोऽपि समाचार आसीत् । ततः सा श्रीमती चिन्ताक्रान्ता जाता । ___ इतस्तृतीयदिने केनाऽपि जनेन गर्तायां पतितं शवं दृष्टम् । तेन तत्क्षणमेवाऽऽरक्षका आहूताः । आगतैरारक्षकैः शवं बहिरानीतम् । वायुवेगेन समस्तनगरे एष वृत्तान्तः प्रसृतः । सर्वेऽपि नगरवासिनो जनास्तत्र संमीलिता जाताः । लुण्टाकैर्धनार्थमेतादृशः सज्जनो धर्मी उदारश्च श्रेष्ठी हतः, इति वार्ता सर्वत्र प्रसृता । न कैरपि जनैस्तस्य बालकस्योपरि सन्देहः कृतः । तथाऽपि विविधपृच्छयाऽऽरक्षकैः 'एतेन बालकेनैव श्रेष्ठिनो हत्या कृता' इति निर्णीतम् । किन्तु श्रीमत्या न स्वीकृतम् । साऽकथयत् - एष बालकः कदाऽपि मलिनं कार्यं न कुर्यात्, तत्राऽप्येतादृशं दुष्कृतं तु नैव कुर्यात् । अनिच्छयाऽपि तैरारक्षकैः स बालको मुक्तः । ततो बालकेन सह सा श्रीमती गृहमागतवती ।
कश्चन कालो व्यतीतः । ततः स बालकः श्रीमत्या आज्ञामादाय स्वग्रामे मातुः समीपमाजगाम । तत्र चोरितेन धनेन वाणिज्यं प्रारब्धं तेन । बालकेन दैवसाहाय्येन तद्व्यापारेण पुष्कलं धनमुपार्जितम् । एवं स धनिकः श्रेष्ठी बभूव ।।
__ अथ कालान्तरेण धनाढ्यश्रेष्ठिनः कन्यया सह तस्य विवाहोऽजनिष्ट । भाग्यवशेन तयोरपि नेत्रानन्दकरः परमस्वरूपवान् च बालकः सञ्जातः । सोऽपि युवा जातः । तस्याऽपि कुलीनस्त्रिया सह विवाहो जातः । ततः सहसैव बालकः ....
श्रीमती उवाच - भवान् स स कथं करोति ? । स बालको न कोऽप्यन्यः किन्तु भवानेवाऽस्ति ।
तदा स श्रेष्ठी निःश्वासं विमुच्योक्तवान् - मया पुष्कलं धनमवाप्तम् । देवस्वरूपो बालकोऽपि जातः । धर्मक्षेत्रेऽतीव धनं व्ययीकृतम् । एतादृशमेकमपि धर्मस्थानं नाऽस्ति, यत्र मया दानं न दत्तम् । एवं मया सर्वमपि धर्मकार्यं विहितं, किन्तु विधात्रा मया कृतं पापं न विस्मृतम्, उचितो न्यायः कृत एव । अन्ते, मह्यं विधात्रा औषधेन वैद्यराजेन च सह वृद्धिरूपेण वधूः प्रदत्ता ।

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92