Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
यादृशं कृतं तादृशं प्राप्तम्
-मुनिधर्मकीर्तिविजयः
एकस्मिन्नगरे एको धनिकः श्रेष्ठी वसति स्म । तस्य प्रशान्तः सौम्याकृतिर्गुणाकरश्चैक एव पुत्र आसीत् । श्रेष्ठिना बहुधनव्ययेन महाडम्बरेण च पुत्रस्य कुलीनकन्यया सह सानन्दं विवाहः कृतः । एवं सर्वरीत्या स श्रेष्ठी परमसुखमनुभवति स्म । ___ एकदा पुत्रोऽस्वस्थो जातः । अनेकैश्चिकित्सकैर्बहवः प्रयत्ना उपचाराश्च कृताः, किन्तु न कोऽपि प्रयत्नः सफलीभूतः । शनैः शनैः स पुत्रो विविधरोगैराक्रान्तो जातः । ततः स पुत्रः सहसैव मरणमाप्तवान् ।
एनयाऽनिष्टघटनया समस्तपरिवारोऽत्यन्तं खिन्नो दुःख्युद्विग्नश्च जातः । कुटुम्बे एक एव बालक आसीत्, सोऽपि मृतः । इतः परमस्माकं किं भवेत् ? तत्राऽपि अन्यचिन्तयाऽलम्, किन्तु यौवनमाप्तवत्या अस्या वध्वाः किं भवेत् ? विवाहात् एकादश मासा एव व्यतीताः । नयनानन्दकरं रूपं परमसौन्दर्यं च धृतवत्याः कन्याया रक्षणं पालनं च कथं क्रियेत ? एतच्चिन्तया तीव्राघातवशेन च श्रीमत्या मनो विक्षिप्तं जातम् । सा श्रीमती चित्तविभ्रमरोगेण समाक्रान्ता जाता । असंतुलितमनसा किं करणीयं किमकरणीयं चेति विवेकोऽपि विनष्टः । एवं साऽऽदिनमाक्रन्दति स्म । श्रीमत्या एतादृशीं स्थिति संवीक्ष्य तेन श्रेष्ठिना पुत्रवियोगस्य दुःखं विस्मृतं किन्तु निरन्तरं श्रीमत्याश्चिन्तया स श्रेष्ठी कालं गमयति स्म । विविधेनौषधिनोपायेन चाऽपि सा श्रीमती न स्वस्थीभूता । ___ अथैकदा कल्याणमित्रेणोक्तम् - भवान् धर्माराधनां करोतु । भवान् श्रीमत्या सह धर्मोपदेशं शृणोतु । तेन धर्मोपदेशेन तस्या मनः शान्तिमनुभविष्यति, इति । श्रेष्ठी नास्तिक आसीत् । सोऽद्यावधि धर्मक्रियाया विरोधमेव कुर्वन्नासीत्, तथाऽपि श्रेष्ठिनाऽनिच्छया मित्रस्य वचनमङ्गीकृतम् ! प्रतिदिनं श्रीमत्या सह स श्रेष्ठी मन्दिरं गच्छति स्म, धर्मोपदेशं चाऽपि स शृणोति स्म । एवं शनैः शनैस्तस्या मनः प्रशान्तं जातम् ।
३७

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92