Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 45
________________ "भवन्तौ द्वावपि स्वस्य प्रत्येकं पापस्य कृते यथाप्रमाणं पाषाणमानीय ददातु मह्यम्" । द्वावपि गतौ । महर्तानन्तरं प्रथमो जनः प्रत्यागतः, एकं च महान्तं पाषाणखण्डं महता प्रयत्नेनाऽऽनीय गुरोश्चरणयोः पार्श्वे सविषादं निहितवान् । ततो द्वितीयोऽपि जनो लघुलघुभिः पाषाणखण्डै तमेकं स्यूतमानीय सहर्षं गुरोनिकषा न्यस्तवान् ।। तद् द्वयमपि वीक्ष्य गुरुणोक्तं – “साम्प्रतं सर्वाण्यप्येतानि पाषाणखण्डानि यत आनीतानि तत्रैव पुनरपि निक्षिपताम्" । एतदाकर्ण्य प्रथमो जनः स्वीयं पाषाणखण्डं स्कन्धे कृत्वा यतस्तदानीतवानासीत् तत्रैव गत्वा पुनरपि निक्षिप्तवान् । परं द्वितीयो जनस्तु यतस्तानि पाषाणखण्डान्यानीतवान् तेषां स्थानानामत्यल्पान्येव स्थानानि स्मृतवान् । अतः स गुरोः पार्श्वे प्रत्यागतः कथितवांश्च – “प्रभो ! एतत्तु सर्वथा दुःशक"मिति । तदा गुरुस्तयोर्द्वयोरपि बोधितवान् यद् - "यदि केनचिन्महत् पापं समाचरितं तदा तस्य पापस्य भारस्तद्धृदयं बहूत्पीडयति, किन्तु यदि स जनस्तदर्थं हृदयेन पश्चात्तापमनुभवेत् तदा स तत्पापान्मुक्तो भवेत् । परन्तु यदि कश्चन सततं लघुलघूनि पापानि समाचरति, तदर्थं चाऽनुतापं नैवाऽनुभवति, तदा स पापान्न कदाऽपि मुक्तो भवति । अतो महान्ति पापानीव लघून्यपि पापानि महता प्रयत्नेन निवारणीयानि" । (चतुर्णामपि आङ्ग्लमूलम् - ___Dr. G. Francis Xavier 100 Great Inspiring Stories) 3RTEIT VEUTH (Misunderstanding) _एको जनः स्वीयं पालितं कुक्कुरं दृढसंहननं कर्तुं किञ्चन पौष्टिकं तैलमानीतवान् प्रत्यहं च प्रचुरमात्रया तत् तस्य पाययितुमारब्धः । स कुक्कुरस्तस्मिन् जने तैलपानार्थं निकषा समागते सर्वसामर्थ्येन तस्य प्रतिकारं कुरुते स्म । अतः कुपितः स तस्य कुक्कुरस्य मस्तकं स्वीयजान्वोर्मध्ये धृत्वा मुखं च बलादुद्घाट्य तत्र तैलं निषिञ्चति स्म । प्रत्यहमयमेव क्रमः । एकदा तैलनिषेकानन्तरं कथमपि कुक्कुरो निजस्वामिनो जान्वोर्मध्यात् स्वं मोचयितुं सफलो जातो मोचनसमनन्तरमेव च सर्वमपि तैलं वमनेन बहिनिष्कासितवान् । स च जन एतद् दृष्ट्वा यावत् किञ्चिच्चिन्तयेत् तावत् तु कुक्कुरो भूतले स्थितं तैलं लेढुमारब्धः । तदानीमेव तेनाऽवबुद्धं यत् कुक्कुरस्तैलपानार्थं प्रतिकुर्वन् नासीत् किन्तु तदीयायास्तैलपानपद्धतेः प्रतिकारं दर्शयन्नासीत् !! ।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92