Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
गर्म गभीरम्
( १ )
उपशान्तं मनः
एकस्य वृद्धसाधोः पार्श्वे एको युवा साधुः समागतः स वृद्धसाधुं कथितवान् यत् "अहं सर्वदा शुभकार्याणि करोमि, भगवद्भक्तिं करोमि, दीनादीनां च सेवामपि करोमि तथाऽपि मे मनः शान्तं नैव भवति । अधुना किं करोम्यहम् ?"
वृद्धसाधुस्तं निकटस्थाज्जलाशयात् किञ्चिज्जलमानेतुमादिष्टवान् । सोऽपि कस्मिंश्चिद् भाजने किञ्चिज्जलमानीतवान् । तच्च जलं कलुषमासीत् ।
-
-कल्याणकीर्तिविजयः
-
" एतज्जलं कञ्चित् कालं स्थिरं तिष्ठतु नाम " वृद्धसाधुरवदत् । युवसाधुना तद् भाजनं स्थिरतया न्यस्तम् । मुहूर्तानन्तरं जलस्था सर्वाऽपि मृत्तिका सिकता चाऽधस्तले संस्थिता जलं च सर्वथा स्वच्छं
जातम् ।
-
ततो वृद्धसाधुरवदत् "अस्माकं जीवनं कलुषं जलमिव भवति । यथा यथा वयमधिकाधिका: प्रवृत्ती: कुर्मस्तथा तथाऽस्माकं मनोऽस्थिरशान्तं च भवति । तद्विपरीततया च यदा वयं प्रवृत्तीरल्पीकृत्य मनस ऐकाग्र्यं साधयामस्तदाऽस्माकं मनोऽस्य जलस्येव स्वच्छं निर्मलं फलतश्च समुपशान्तं भवति" ।
(२) सौन्दर्यम्
३३
वर्षर्तोर्दिनमेकम् । मेघा अनवरतधाराभिर्वर्षन्त आसन् । सर्वत्र जलमयं वातावरणमासीत् । एतावता, एको जनश्चिकित्सालयसोपानानि सवेगमवतीर्य निकषैव गच्छन्तं बस्यानमारूढः एवं कथयन् “अहो ! कियान् सुन्दरोऽयं दिवसः खलु !" । वर्षा तु निर्विरामं प्रवर्तमानाऽऽसीत्, शैत्यं प्रवृद्धमासीत्, एनं मुक्त्वा च सर्वेऽपि मुक्तकण्ठमीदृशमृतुं निन्दन्त आसन् । किन्तु जनोऽयमेकमेव वाक्यं वदन्नासीत् -

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92