Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 48
________________ एकदा धर्मोपदेशकेन साधुना प्रवचनसभायां कथितम् यत्र राजा न्यायी स्यात्तथा प्रजा धर्मकरणे रताः स्युस्तत्र कदाऽपि नाऽकालमृत्युर्भवेत् । मातापित्रोरुपस्थित्यां बालको म्रियेत, इति कथं भवेत् ? एतत्तु न शक्यमेव । प्रवचनकारसाधोरेतद्वचनेन श्रीमत्या मनसि कोलाहलः सञ्जातः । दिवसे रात्रौ निद्रायां चाऽपि सा तु जल्पति स्म किमपि भयङ्करं पापं कृतं स्यात्, अन्यथा नैवं भवत्येव । एतच्छ्रुत्वा श्रेष्ठी तां वारं वारं बोधयति स्म किन्तु श्रीमत्या न स्वीक्रियते स्म । सा तु अन्यथैवं न भवत्येव इति रटनमेव सदाऽकरोत् । -- भवान् सत्यं वदतु, भवता किं पापं कृतमिति पृष्टं श्रीमत्या । श्रेष्ठी न स्वीकरोति स्म । तथाऽपि श्रीमत्या अत्याग्रहेन तेन श्रेष्ठिनोक्तम् मया पूर्वमेकं पापं कृतं, किन्तु कृतेन तेन पापेनैव वयं सुखिनः स्मः । किञ्च तेन पापेन विपुलं धनं संप्राप्तम्, पश्चात्तेन धनेनाऽनेकानि सत्कार्याणि कृतानि । यथा बहूनि मन्दिराणि निर्मितानि बह्व्यः प्रतिमाः प्रतिष्ठिता:, अनेकशो यात्राः कृताः, भोजनालया उद्घाटिताः, साधुभ्यो विपुलं दानं दत्तम्, इति । अतस्तैः सत्कार्यैः कृतं पापं तु विनष्टं जातम् । श्रीमती क्रुद्धा जाता । एतैः सत्कार्यैरलम्, प्रथमं भवान् कथ किं पापं कृतमिति । श्रेष्ठी उवाच एकस्मिन् ग्रामे मात्रा सहैको बालको वसति स्म । तस्य परिवारेऽन्यो न कोऽप्यासीत् । पिता तु दुर्भाग्यं दारिद्यं चैव विमुच्य मृतः । ततो माता पुत्रश्चेति द्वावपि उदरभरणार्थं केषाञ्चिज्जनानां गृहकार्यं कुरुतः स्म । बहुभिः कष्टैः प्रयत्नैश्चाऽपि तयोरुदरपूर्तिर्नाऽभवत् । ततः स बालको मातुराज्ञामादाय धनप्राप्त्यर्थं मुम्बईनगरे गतवान् । - - तत्र कस्यचिदपि श्रेष्ठिनो गृहे कर्मकररूपेण स बालकोऽवसत् । स श्रेष्ठिनो गृहे आपणे च सर्वमपि कार्यं करोति स्म । एवं कियानपि कालो व्यतीतः । श्रेष्ठी पुत्रवत् तस्य पालनमकरोत् । भोजनेन सह रूप्यकाण्यपि तस्मै बालकाय श्रेष्ठी ददाति स्म । स बालकश्चिन्तयति स्म - एतावद्धनेन किं भवेत् ? जनन्यै किं दास्यामि ? एवं तु कथं जीवनं पूर्णं करिष्यामि ? उद्विग्नमानसस्य तस्य हृदि पापविचारः प्रविष्टः । मयाऽद्यावधि किमप्यशुभं नाऽकारि तथाऽपि धनं न प्राप्यते मया । अन्ये जना निरन्तरं निन्दनीयं मलिनं च कार्यं कुर्वन्तोऽपि बहु धनं प्राप्नुवन्ति । एवं चिन्तयतस्तस्य चेतसि ' श्रेष्ठिनं वञ्चयित्वा विपुलं धनं गृहीत्वाऽन्यत्राऽहं गच्छेयम्' इति पापबुद्धिः प्रकटिता । इत: श्रेष्ठी सज्जन: सरलो दयालुश्चाऽऽसीत् । ततो बालकस्योपरि श्रेष्ठिनो मनसि पूर्णो विश्वास आसीत् । एवं सति सर्वमपि धनव्यवहारं बालक एव करोति स्म । एकदा निशि धनमादाय स बालक आगच्छन्नासीत् । यदा तद्धनं गृहीत्वाऽन्यत्र गन्तुं बालक: प्रयतेत तदैव श्रेष्ठी सन्मुखमागतः । दुर्बुद्धिना परिवेष्टितः स बालक आगच्छन्तं श्रेष्ठिनं समीपस्थगर्तायां ३८

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92