Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 25
________________ गताऽभिराजी मे प्रसूर्जिजीविषां संगृह्य । जीवति वपुस्ततः प्रभृति चैतन्यं नु विगृह्य ॥१४॥ को नु जपति मम कर्णयोर्मन्दं मन्दमुपेत्य । प्रतिष्ठस्व विहगाऽधुना कर्मविपाकमवेत्य ॥१५॥ बहु भुक्तं पीतं सखे ! सुप्तं कृतञ्च साधु । मुञ्च नु जन्मान्तरकृते तद् वा किञ्चिदसाधु ॥१६॥ राम कृष्ण गोविन्द हे हे विधुभाल भवानि !। स्वयं ब्रूहि केनाऽध्वना भवदन्तिकमुपयानि ? ॥१७॥ रङ्गपीठमवगत्य मां चित्रमभिनयसि मित्र ! किन्तु तेन किं लप्स्यसे विधिप्रपञ्च विचित्र ! ॥१८॥ जानाम्यहममृतं नु किं किं गरलं चितिहारि ? । एकं मेऽभूदन्तकं परञ्च मङ्गलकारि ॥१९॥ दनुजं जनयति दानवी देवं देवी चाऽपि । एका स्त्री द्वे भूमिके, जननी साऽपि च साऽपि ॥२०॥ अतियातोऽस्म्यथ सप्ततिं वार्धक्यं नन्वेति । मोहतमो नश्यति शनैर्ज्ञानरविस्समुदेति ॥२१॥ बाल्यं नीतं क्रीडयाऽतृप्त्या यौवनमाशु । वार्धक्येऽपि मनोऽधुना संलक्ष्यते पिपासु ॥२२॥ रतियज्ञोऽपि विलक्षणो हविषा शमं न याति । वर्धत उत्तरमुत्तरं जीवनभक्षि विभाति ॥२३॥ स्वयं विनष्टा आपदो निर्बन्धास्ते देव !। जगदपहाय दिवङ्गता ये मध्ये सहसैव ॥२४॥ निजखट्वायां जायते या सुखनिद्रा काऽपि । क्वाऽसौ तल्पे धनपतेः क्व सुखं तच्चिद्व्यापि ॥२५॥ आहूतो वा भर्त्तितस्ताम्रचूड उत्थाय । उषसि बोधयति पालकं कृती स एवाऽह्नाय ॥२६॥ श्रमार्जिता या रोटिका तया तृप्तिरुदियाय । परपीडार्जितवैभवं जातं ननु दुःखाय ॥२७॥ १५

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92