Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 40
________________ पुस्तकसमीक्षा पुस्तकनाम (श्रीरामोदन्त-काव्यम् अज्ञातकर्तृकम् - साभ्यासम्) (Sri Ramodanta - A Sanskrit Study exposition) अभ्यासलेखकः M.A. रवीन्द्रन् (मलयालमभाषया) प्रकाशकः श्रीरामकृष्ण-आश्रमः S.R.K. Nagar, P.O. OTTAPALAM (Di. PALAKKAD) 679103 (KERALA) अज्ञातेन केनचित् प्राचीनेन विदुषा विरचितं श्रीरामोदन्तकाव्यं भगवतः श्रीरामस्य वनवासादिकं वृत्तं काव्यात्मकशैल्या प्रस्तौति । केरलराज्यस्य पारम्परिक-संस्कृतशिक्षणपद्धतौ, यैर्बालकैः संस्कृतभाषायाः प्राथमिकं ज्ञानं प्राप्तमस्ति - अर्थात् विभक्त्याख्यात-सन्धि-समासादिकं ये बालाः सम्यक्तया जानन्ति, तेषामिदं काव्यं पाठ्यते । ___ अत्र प्रकाशने श्रीरवीन्द्रमहोदयेन श्लोकानामर्थः, व्याकरणबोधः, कृत्-प्रत्ययानां तद्धितप्रत्ययानां च बोधः, उपसर्गादीनां च कार्यं सर्वथा सुचारुरीत्या विवृतमस्ति । एतस्याऽभ्यासस्य सम्यक्-पठनेन विद्यार्थिनः संस्कृतभाषाबोधः स्पष्टो विशदश्च भवति । पुस्तके काव्यपाठो देवनागरी-लिप्या प्रकाशितोऽस्ति, समग्रोऽभ्यासश्च मलयालमभाषया मलयालमलिप्यैव च प्रकाशितोऽस्तीति मलयालमभाषा-लिप्यनभिज्ञानां कृते केवलं मौलं काव्यमेव पठनीयतया वर्तत इति । ३०

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92