Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 27
________________ मुष्टिमितं मम भोजनं चुलुकमितैव तृषाऽपि । स्वार्थः कोऽपि न जीवने दूये तन्न कदापि ॥४२॥ अभिराजाभीष्टत्रयं साम्राज्याधिकमेव । करे लेखनी कर्गदं हृदि शारदा सदैव ॥४३॥ कूज कूज कोकिल ! सखेऽवसरस्तवाऽऽजगाम । दर्दुरदिने समागतेऽथवा स्मरसि हरिनाम ॥४४॥ पिहू पिहू क्रन्दन्नहो समाह्वयसि कं मूढ ! । चातक ! कुण्ठितकण्ठ भो ! व्यथयसि विपन्निगूढ ! ॥४५॥ भाति खण्डिता नायिका ग्रीष्मे सरिदह्राय । वासकसज्जोत्कण्ठिता भविता घनमादाय ॥४६।। वीक्ष्य बुधानां मूढतां सुहृदां छलं निरीक्ष्य । मूढानां बुधमानितां चकितः को न समीक्ष्य ? ॥४७॥ लोष्टाघातव्यथां ते चूत ! हन्त सहन्तु । बधूरा वयमादृताः कण्टकबलात्परन्तु ॥४८॥ महनीयं ननु तत्कृते यस्य यदीयं कर्म । भृङ्ग एव जानात्यही सुमासवानां मर्म ॥४९॥ क्षारं क्षते न योजय योजय तस्मिन् वारि । भवनकपाटमपावृणु भिक्षुरुपेयाद् द्वारि ॥५०॥ प्रावृषि नदी तटङ्कषा भवति जलप्लवमेत्य । कुलङ्कषा गृहिणी तथा यौवनमदं समेत्य ॥५१॥ कस्य न भवति धनव्ययैरुचितैः सुखं सदैव । कोऽस्त्येकल इह भूतले यस्य गृहं वसुधैव ? ॥५२॥ इत्यनुभवपञ्चाशिका सुहृदां हृदयसुखाय । कृताऽभिराजीसूनुना मध्यमेन सन्धाय ॥५३॥ वृन्द-बिहारि-रहीमकृद्दोधकानि परिशील्य । अभिराजरसिकः पठतु ननु दृग्द्वयमुन्मील्य ॥५४॥ मथुरानाथपथानुगस्तनुते कौशलमद्य । एष कविस्त्रैवेणिको वाचां तपसि निषद्य ॥५५॥ १७

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92